कांवडयात्रायां जुगाडवाहनानां, रेट्रो-साइलेन्सर-यन्त्राणां तथा आयुधानां सम्पूर्णप्रतिषेधः
हरिद्वारम्, १० जुलाईमासः (हि.स.)। अग्रिमाया: कांवडयात्रा–२०२६ इत्यस्याः शान्तिपूर्ण-सुरक्षित-सुव्यवस्थित-सञ्चालनार्थं हरिद्वार-जनपद-प्रशासनं आरक्षक-विभागश्च श्रद्धालुभ्यः दिशानिर्देशान् प्रकाशितवन्तौ। यात्राकाले जुगाडवाहनानां, रेट्रो-साइलेन्सर-यन्त
कावड़ यात्रा प्रतीकात्मक चित्र


हरिद्वारम्, १० जुलाईमासः (हि.स.)। अग्रिमाया: कांवडयात्रा–२०२६ इत्यस्याः शान्तिपूर्ण-सुरक्षित-सुव्यवस्थित-सञ्चालनार्थं हरिद्वार-जनपद-प्रशासनं आरक्षक-विभागश्च श्रद्धालुभ्यः दिशानिर्देशान् प्रकाशितवन्तौ। यात्राकाले जुगाडवाहनानां, रेट्रो-साइलेन्सर-यन्त्राणां तथा आयुधानां प्रयोगे सम्पूर्णप्रतिषेधः विधीयते।

आरक्षक-विभागेन श्रद्धालुभ्यः अनुरोधः कृतः यत् ते यात्रायां सर्वान् नियमाञ् सम्यक् पालयन्तु प्रशासनस्य च सहयोगं कुर्वन्तु। निर्देशानुसारं पदयात्रया जलं वहन्तः शिवभक्ताः स्वकांवडस्य उन्नतिं षट्पादमितात् अधिकां न कुर्वन्तु तथा कांवड-प्रदर्शिन्या: उन्नतिं दशपादमितात् अधिकां न स्थापयन्तु, येन उच्चविद्युत्तारकै: सह दुर्घटनायाः सम्भावना न भवेत् अन्येषां श्रद्धालूनां च काचिदसुविधा न जायेत। यात्राकाले तीक्ष्णकुन्तानां, त्रिशूलानां, खड्गानां वा अन्येषां कस्यापि प्रकारस्य आयुधानां आनयनं निषिद्धं भविष्यति। तथैव मद्यस्य अथवा कस्यापि मादकद्रव्यस्य सेवनं, तेषां प्रभावेण वा हरिद्वारे प्रवेशः अपि निषिद्धः अस्ति।

आरक्षक-विभागेन प्रत्येकं कांवडयात्रिणं स्वसमीपे वैध-परिचयपत्रं धारयितुम् अनुरोधः कृतः। रेलमार्गेण आगच्छन्तः श्रद्धालवः सचेतिताः यत् चलद्रेलयानस्य उपरितले अथवा अन्येषु असुरक्षितस्थानेषु यात्रा विधानविरुद्धा अस्ति, एवं कुर्वतां विरुद्धं विधिसम्मता कार्यवाही करिष्यते।

आरक्षक-विभागेन श्रद्धालुभ्यः यात्राकाले कस्यापि प्रकारस्य विवादस्य परिहारः कर्तव्यः इति निवेदितम्। उक्तं च यत् कांवडयात्रायाः प्रमुखोद्देश्यं भगवत: शिवस्य जलाभिषेकः एव। अतः सर्वे श्रद्धालवः नियमपालनं कृत्वा यात्रां सुरक्षितां, अनुशासितां सफलां च कर्तुं प्रशासनस्य सहयोगं कुर्वन्तु।

Hindusthan Samachar / Divya Ranjan