उद्यमी-पुरस्कार-योजनायै आवेदन-प्रक्रिया आरब्धा
एमएसएमई-एककेभ्यः निर्धारित-प्रारूपेण आवश्यक-अभिलेखैः सह आवेदनपत्राणि आमन्त्रितानि मुरादाबादनगरम्, ११ जुलाईमासः (हि.स.)। उत्तरप्रदेश-सर्वकारेण वित्तीय-वर्षस्य २०२६-२७ कृते प्रादेशिक-पुरस्कार-योजनायाः अन्तर्गतं आवेदन-प्रक्रिया आरब्धा। उद्योग-उद्यम-प
उद्यमी पुरस्कार योजना के लिए आवेदन प्रक्रिया शुरू


एमएसएमई-एककेभ्यः निर्धारित-प्रारूपेण आवश्यक-अभिलेखैः सह आवेदनपत्राणि आमन्त्रितानि

मुरादाबादनगरम्, ११ जुलाईमासः (हि.स.)। उत्तरप्रदेश-सर्वकारेण वित्तीय-वर्षस्य २०२६-२७ कृते प्रादेशिक-पुरस्कार-योजनायाः अन्तर्गतं आवेदन-प्रक्रिया आरब्धा। उद्योग-उद्यम-प्रोत्साहन-निदेशालयेन एमएसएमई एककेभ्यः निर्धारित-प्रारूपेण आवश्यक-अभिलेखैः सह आवेदनपत्राणि आमन्त्रितानि। आवेदनपत्र-समर्पणस्य अन्तिमा तिथिः ३१ अगस्तमासः २०२६ इति निर्धारिता अस्ति। निदेशालयस्य अनुसारेण आवेदनपत्राणि केवलं चतुर्दश-विनिर्माण-श्रेणीषु तथा द्वादश-सेवा-क्षेत्र-श्रेणीषु एव स्वीकृतानि भविष्यन्ति। आवेदनपत्रस्य सर्वे स्तम्भाः सम्यक् पूरणीयाः भविष्यन्ति।

एमएचईए-संस्थायाः अध्यक्षः नवेद-उर-रहमान: शनिवासरे अवदत् यत् एषः एमएसएमई-उद्यमिनां कृते उत्कृष्टः अवसरः अस्ति। अनेन उत्कृष्ट-कार्यप्रदर्शनं क्रियमाणा: एककाः सम्मानं प्राप्स्यन्ति, उद्योगेषु च गुणवत्ता, नवोन्मेषः तथा प्रतिस्पर्धा अपि प्रोत्साहिता भविष्यति।

तेन उक्तं यत् जनपदस्य हस्तशिल्प-उद्योगस्य अनेके एकका: अस्याः योजनायाः पात्राणि सन्ति। एषा योजना एमएसएमई-क्षेत्रे गुणवत्ता, पारदर्शिता तथा स्वस्थ-प्रतिस्पर्धायाः संवर्धनं करिष्यति।

Hindusthan Samachar / Divya Ranjan