राम मंदिरस्य समस्तं प्रमुखनिर्माणकार्यं 30 जुलाई यावत् पूर्णे सति लक्ष्यम् : नृपेंद्रमिश्रा
अयोध्या, 11 जुलाईमासः (हि.स.)।राममन्दिरनिर्माणसमितेः अध्यक्षः नृपेन्द्रमिश्रः शनिवासरे दानचौर्यप्रकरणसम्बन्धे अवदत् यत् एषा घटना स्वयमेव एकः कलङ्कः अस्ति। वयं सर्वे स्वान् लघून् अनुभवन्तः स्मः। सः अवदत् यत् व्यवस्थासु सुधारः भविष्यतीति आशा अस्ति। भ
नृपेंद्र मिश्र


अयोध्या, 11 जुलाईमासः (हि.स.)।राममन्दिरनिर्माणसमितेः अध्यक्षः नृपेन्द्रमिश्रः शनिवासरे दानचौर्यप्रकरणसम्बन्धे अवदत् यत् एषा घटना स्वयमेव एकः कलङ्कः अस्ति। वयं सर्वे स्वान् लघून् अनुभवन्तः स्मः। सः अवदत् यत् व्यवस्थासु सुधारः भविष्यतीति आशा अस्ति। भविष्ये एतादृशी पुनरावृत्तिः न भविष्यति।

सर्किटहाउसे पत्रकारैः सह संवादं कुर्वन् नृपेन्द्रमिश्रः अवदत् यत् पुरातनमन्दिरस्मारकस्य निर्माणकार्यं प्रायः सम्पूर्णम् अभवत्। अधुना तत्र चतुर्विंशतिघण्टाः अखण्डज्योतेः प्रज्वलनस्य सिद्धता क्रियते। हुतात्मास्मारकस्य निर्माणकार्यं जुलैमासस्य अन्त्यपर्यन्तं सम्पूर्णं भविष्यतीति अपेक्षा अस्ति। त्रिंशत् जुलैपर्यन्तं राममन्दिरस्य सर्वाणि प्रमुखनिर्माणकार्याणि सम्पूर्णानि कर्तुं लक्ष्यं निर्धारितम् अस्ति। समये एव कार्यसमापनं भविष्यतीति अपेक्षा वर्तते। केवलं चतुःकिलोमीटरपरिमितायाः प्राकारभित्तेः निर्माणकार्यं शेषम् अस्ति, तत् त्रिंशत् सेप्टेम्बरपर्यन्तं सम्पूर्णं कर्तुं लक्ष्यं निर्धारितम् अस्ति।

सः अवदत् यत् राममन्दिरस्य सभागारनिर्माणकार्यं दिसम्बर २०२६ पर्यन्तं सम्पूर्णं भविष्यति। रामकथासङ्ग्रहालयस्य विंशतिः प्रदर्शनीदीर्घिकाणां कथाविन्यासः सिद्धः अस्ति। दृश्यप्रस्तुतीकरणसम्बन्धे सभायां अन्तिमनिर्णयः भविष्यति। एतदतिरिक्तं सः अवदत् यत् मुख्यकार्यनिर्वाहकाधिकारिणः नियुक्त्यर्थं गठिता त्रिसदस्यीयसमितिः अन्तिमनिर्णयं करिष्यति।

Hindusthan Samachar / Dheeraj Maithani