Enter your Email Address to subscribe to our newsletters

मानसून एवं संभावितजलप्रलयान्निर्वतयितुं डीएचबीवीएन पूर्णतया सज्जम्
हिसारः, 11 जुलाईमासः(हि.स.)।
उत्तरदक्षिणहरियाणाविद्युतवितरणनिगमस्य प्रबन्धनिर्देशकस्य विक्रमसिंहस्य निर्देशानुसारं निगमेन वर्षाकालस्य सम्भावितबाढस्थितेश्च प्रभाविरूपेण सामनार्थं सर्वाः आवश्यकतयारयः सम्पूर्णतया सम्पन्नाः। विद्युत्प्रदायस्य अविच्छिन्नप्रवाहस्य संरक्षणाय आपत्कालीनस्थितौ च शीघ्रपुनर्स्थापनस्य सुनिश्चितीकरणाय सर्वेषु क्षेत्रीयकार्यालयेषु भण्डारगृहेषु च पर्याप्तमात्रायां विद्युत्स्तम्भाः चालकताराः रूपान्तरकाः निरोधकाः केबलाः अन्याश्च आवश्यकसामग्र्यः पूर्वमेव सञ्चिताः सन्ति।
निगमेन शनिवासरे स्पष्टीकृतं यत् बाढपीडितप्रदेशेषु आवश्यकसामग्रीणां शीघ्रपरिवहनस्य उपलब्धेः च समुचितव्यवस्था कृता अस्ति। तेन सह वर्षाकालात् पूर्वं संवेदनशीलविद्युत्सम्पत्तीनां सुदृढीकरणं विद्युतुपकेन्द्राणां प्रतिष्ठानानां च परितः जलनिर्गमनस्य समुचितव्यवस्था सुनिश्चितीकृता अस्ति, येन कापि बाधा न उत्पद्येत। पुनश्च स्पष्टीकृतं यत् सिञ्चनजलनिकासविभागेन बाढसम्बद्धानाम् अस्थायिविद्युत्संयोजनानां कृते आवेदनं प्राप्तमात्रेण प्राथमिकतया संयोजनानि प्रदास्यन्ते। सम्प्रति हिसारक्षेत्रे द्विशतसप्ततिः तथा दिल्लीक्षेत्रे चतुर्विंशतिः बाढसम्बद्धसंयोजनानाम् आवेदनानि प्राप्तानि सन्ति। तेषु द्वे संयोजने प्रदत्ते स्तः, अवशिष्टानि सर्वाणि संयोजनानि एकसप्ताहस्य अन्तरे प्रदातुं लक्ष्यं निर्धारितम् अस्ति।
आपत्कालीनपरिस्थितिषु शीघ्रशिकायतनिवारणस्य समन्वयस्य च कृते प्रत्येकसर्कलस्तरे चतुर्विंशतिघण्टापर्यन्तं केन्द्रीयशिकायतकेन्द्राणि सञ्चालितानि सन्ति। तेषां निरीक्षणं सम्बन्धितक्षेत्राधिकारीणां द्वारा क्रियते, येन कस्यापि विद्युत्व्यवधानस्य शीघ्रसमाधानं सुनिश्चितं कर्तुं शक्यते।
Hindusthan Samachar / Dheeraj Maithani