Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 11 जुलाईमासः (हि.स.)।केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः शनिवासरे युवजनान् ग्रन्थालयैः सह सम्बद्धान् भवितुम् आह्वयन् अवदत् यत् कस्यापि राष्ट्रस्य भविष्यस्य मूल्याङ्कनम् तस्य आर्थिकसमृद्ध्या न भवति अपितु तस्य ग्रन्थालयेषु आगच्छतां युवानां सङ्ख्यया भवति। सः अवदत् यत् ज्ञानं विवेकश्च एव राष्ट्रनिर्माणस्य वास्तविकशक्तिः स्तः तथा च तयोः महान् स्रोतः ग्रन्थालयाः एव सन्ति।
शाहः नूतनदिल्लीनगरे जयप्रकाशनारायणसार्वजनिकग्रन्थालयस्य उद्घाटनसमारोहे सम्बोधनम् अकरोत्। सः अवदत् यत् लोकनायकस्य जयप्रकाशनारायणस्य नाम्ना स्थापितम् एतत् ग्रन्थालयं दिल्लीनगरस्य कृते महत्त्वपूर्णा उपलब्धिः अस्ति। सः अवदत् यत् महान् स्वतन्त्रतासेनानी चिन्तकः लोकतन्त्रस्य दृढप्रहरी च आसीत् जयप्रकाशनारायणः। तस्य जीवनं देशवासिनां कृते सर्वदा प्रेरणास्रोतः भविष्यति।
सः अवदत् यत् केनचित् विचारकेन उक्तम् आसीत् यत् कस्यचित् राष्ट्रस्य भविष्यं अस्मात् विषयात् निर्धार्यते यत् तस्य ग्रन्थालयेषु कियती भीडः अस्ति तत्र च कतिवन्तः युवानः अध्ययनं कुर्वन्ति। कृषिः उद्योगः बाजारः च राष्ट्रस्य प्रगतेः सूचकाः भवितुम् अर्हन्ति किन्तु राष्ट्रस्य वैभवप्राप्तेः आधारः ज्ञानं तस्य व्यवहारिकप्रयोगश्च भवतः यौ ग्रन्थालयेभ्यः एव प्राप्येते।
युवजनान् ग्रन्थालयैः सह सम्बद्धान् भवितुम् आह्वयन् शाहः अवदत् यत् यदि युवानः नियमितरूपेण ग्रन्थालयम् आगमिष्यन्ति तर्हि तेषां व्यक्तित्वे सकारात्मकः परिवर्तनः भविष्यति। कस्यापि विषयस्य विषये चिन्तनात् पूर्वं तस्य विषयस्य अध्ययनं करणीयम् तथा च एषा सुविधा ग्रन्थालयः एव प्रददाति। सः श्रुतमात्रकथानां स्थाने पुस्तकेषु उपलब्धं प्रामाणिकं ज्ञानम् अर्जयितुम् बलम् अददात्।
गृहमन्त्री गान्धीनगरलोकसभाक्षेत्रे ग्रन्थालयविकासस्य उदाहरणं प्रदर्शयन् अवदत् यत् तत्र प्रत्येकस्मिन् ग्रामे त्रिसहस्रतः चतुःसहस्रपर्यन्तपुस्तकयुक्ताः ग्रन्थालयाः स्थापिताः सन्ति। ते लक्षाधिकपुस्तकसम्पन्नेन केन्द्रीयग्रन्थालयेन सह सम्बद्धाः कृताः सन्ति। चतस्रः चलग्रन्थालययानसेवाः अपि सञ्चाल्यन्ते। ताभिः ग्रामस्य कश्चन छात्रः स्वाभीष्टां पुस्तकं प्रेषयितुम् आदेशं दातुं शक्नोति तथा च प्रत्येकस्मिन् शुक्रवासरे तत् पुस्तकं तस्य ग्रामं प्राप्यते।
सः अवदत् यत् एते ग्रन्थालयाः स्थानीयविद्यालयैः सह अपि सम्बद्धाः कृताः सन्ति येन विद्यार्थिषु पठनस्य अभ्यसः विकसितः भवेत्। सः दिल्लीनगरस्य अस्य ग्रन्थालयस्य अधिकारिणः अपि अनुरोधितवान् यत् ते समीपस्थान् विद्यालयान् सम्पर्क्य विद्यार्थिनः ग्रन्थालयागमनाय प्रेरयेयुः। सः अवदत् यत् यदि युवानः एकवारं ग्रन्थालयागमनस्य अभ्यस्ताः भवन्ति तर्हि अनन्तरं पुस्तकेषु एव तेषां मार्गदर्शनस्य सामर्थ्यम् भविष्यति।
शाहः परामर्शम् अददात् यत् दिल्लीसर्वकारेण सर्वाणि सार्वजनिकग्रन्थालयानि परस्परं डिजिटलपद्धत्या सम्बद्धानि कर्तुं प्रयासः करणीयः। द्वितलयुक्ते अस्मिन् आधुनिकग्रन्थालये द्वात्रिंशत्सहस्राधिकपुस्तकानां सङ्ग्रहः अस्ति। अत्र शोधकर्तृभ्यः पृथक् अध्ययनकक्षः आधुनिकपठनक्षेत्रम् बहुउद्देश्यीयसभागारः निःशुल्कवैफाईसुविधा तथा च एककोट्यधिक ईपुस्तकयुक्ता ईग्रन्थालयसुविधा अपि उपलब्धा अस्ति।
लोकनायकं जयप्रकाशनारायणं श्रद्धाञ्जलिम् अर्पयन् गृहमन्त्री अवदत् यत् तेन स्वतन्त्रतान्दोलनात् आरभ्य लोकतन्त्ररक्षणपर्यन्तं प्रत्येकस्मिन् चरणे ऐतिहासिकी भूमिका निर्व्यूढा।
---------
Hindusthan Samachar / Dheeraj Maithani