असम हरित ऊर्जा केंद्रस्य निर्माणं प्रति अग्रसरः, ऊर्जा क्षेत्रे 77,353 कोटिरुप्यकाणां निवेशस्य योजना : भाजपादलम्
गुवाहाटी, 11 जुलाईमासः (हि.स.)।भाजपादलस्य असमप्रदेशप्रवक्ता मानसशरणियः उक्तवान् यत् मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वसर्मणः नेतृत्वे असमराज्यम् ऊर्जाक्षेत्रे शीघ्रम् आत्मनिर्भरं हरितऊर्जाधारितं च राज्यरूपेण उदेति। सः उक्तवान् यत् विद्युतः वर्धमानमागधा
Assam BJP Headquarters


गुवाहाटी, 11 जुलाईमासः (हि.स.)।भाजपादलस्य असमप्रदेशप्रवक्ता मानसशरणियः उक्तवान् यत् मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वसर्मणः नेतृत्वे असमराज्यम् ऊर्जाक्षेत्रे शीघ्रम् आत्मनिर्भरं हरितऊर्जाधारितं च राज्यरूपेण उदेति। सः उक्तवान् यत् विद्युतः वर्धमानमागधायाः आपूर्तेश्च मध्ये विद्यमानम् अन्तरम् अन्तयितुं राज्यसर्वकारेण सप्तसप्ततिसहस्रत्रिशतत्रिपञ्चाशत्कोटिरूप्यकाणां निवेशेन व्यापकयोजना निर्मिता अस्ति, येन भविष्ये राज्यं अन्यराज्यानां विद्युतः उपरि आश्रितं न भविष्यति।

सः अवदत् यत् वर्षस्य २०२६ २७ तमे वित्तवर्षे ऊर्जाविभागाय द्विसहस्रपञ्चशतनवनवतिः कोटिरूप्यकाणां प्रावधानं कृतम् अस्ति। प्रधानमन्त्रीसूर्यगृहनिःशुल्कविद्युत्योजनायाः अन्तर्गतं अधुना यावत् एकलक्षत्रिंशत्सहस्राधिकाः उपभोक्तारः लाभान्विताः अभवन् तथा च चतुःशतत्रिंशदधिकमेगावाटपरिमिता सौरऊर्जाक्षमता स्थापिता अस्ति। सर्वकारस्य लक्ष्यम् अस्ति यत् वर्षस्य २०३० पर्यन्तं त्रिसहस्रात् चतुःसहस्रमेगावाटपरिमिता सौरऊर्जोत्पादनक्षमता साध्येत। एतदर्थं शोणितपुरे डिब्रूगढे कार्बीआङ्गलङ्गे च नवीनाः सौरऊर्जापरियोजनाः स्थाप्यन्ते।

शरणियः उक्तवान् यत् बिलासीपाडायां त्रिसहस्रद्विशतमेगावाटपरिमितः तापविद्युत्संयन्त्रः तथा अडानीसमूहेन द्विसहस्रसप्तशतमेगावाटपरिमिता पम्प्डस्टोरेजपरियोजना विकसिताभविष्यति। सहैव शतविंशतिमेगावाटपरिमिता लोअरकपिलीजलविद्युत्परियोजनां सहिताः अनेकाः परियोजनाः राज्यस्य विद्युत्व्यवस्थया संयोजिताः भविष्यन्ति। सः अवदत् यत् नवसहस्रकोटिरूप्यकेभ्यः अधिकव्ययेन विद्युत्वितरणव्यवस्थायाः आधुनिकीकरणं क्रियते तथा च द्वादशशतकोटिरूप्यकव्ययेन पुरातनाः एलटीविद्युत्प्रसारणरेखाः परिवर्तिताः भविष्यन्ति।

सः उक्तवान् यत् पम्प्डस्टोरेजपरियोजनानां माध्यमेन न्यूनमागधाकाले अतिरिक्तविद्युतः सञ्चयः भविष्यति तथा च आवश्यकतासमये तस्य उपयोगः क्रियते, येन विद्युत्जालस्य स्थिरता ऊर्जासुरक्षा च अधिकं सुदृढे भविष्यतः। स्मार्टमीटरप्रणाली, ऊर्जासंरक्षणम्, सेवानां डिजिटलीकरणम् इत्यादिभिः उपक्रमैः विद्युत्पूर्तिः अधिकविश्वसनीया अभवत्। शरणियः दावम् अकरोत् यत् सुदृढया ऊर्जामूलसंरचनया असमराज्यम् निवेशकानां कृते आकर्षकं गन्तव्यं भवति तथा च राज्यं उत्तरपूर्वभारतस्य हरितऊर्जाकेन्द्ररूपेण शीघ्रं प्रगतिपथम् अनुगच्छति

----------

Hindusthan Samachar / Dheeraj Maithani