लोकतंत्रस्य सफलता जनप्रतिनिधीनाम् उत्तरदायित्वं जनसेवां प्रति तेषां प्रतिबद्धतां प्रति निर्भरम् : मुख्यमंत्री
गयाजी, 11 जुलाईमासः (हि.स.)। बिहारराज्यस्य मुख्यमन्त्री सम्राटचौधरी उक्तवान् यत् सक्षमाः विधायकाः सशक्ता च विधानसभैव समृद्धबिहारस्य आधारशिला अस्ति। लोकतन्त्रस्य सफलता जनप्रतिनिधीनां क्षमता, उत्तरदायित्वबोधः, जनसेवायाः प्रति तेषां निष्ठा च इत्येतेषु
विधानसभा के सदस्यों के दो दिवसीय प्रबोधन कार्यक्रम में मुख्यमंत्री सम्राट चौधरी सम्बोधित करते हुए


गयाजी, 11 जुलाईमासः (हि.स.)। बिहारराज्यस्य मुख्यमन्त्री सम्राटचौधरी उक्तवान् यत् सक्षमाः विधायकाः सशक्ता च विधानसभैव समृद्धबिहारस्य आधारशिला अस्ति। लोकतन्त्रस्य सफलता जनप्रतिनिधीनां क्षमता, उत्तरदायित्वबोधः, जनसेवायाः प्रति तेषां निष्ठा च इत्येतेषु अवलम्बते। विधायकानां कृते आयोजिताः प्रशिक्षणकार्यक्रमाः तान् स्वीयान् संवैधानिकदायित्वान् जनहितसम्बद्धकार्याणि च सम्यग्रूपेण निर्वोढुं समर्थान् कुर्वन्ति।

मुख्यमन्त्री शनिवासरे गयाजीस्थिते बिहारलोकप्रशासनग्रामीणविकाससंस्थाने (बिपार्ड) बिहारविधानसभायाः सदस्येभ्यः आयोजितं द्विदिवसीयं प्रबोधनकार्यक्रमं सम्बोधयन् उक्तवान् यत् जनतया विश्वासेन अपेक्षाभिश्च विधायकाः विधानसभां प्रेषिताः सन्ति। अतः जनप्रतिनिधीनां कर्तव्यं भवति यत् ते स्वीयक्षेत्रस्य समस्याः, जनाकाङ्क्षाः, विकाससम्बद्धविषयांश्च सम्यक्प्रस्तुत्या, तथ्याधारितसूचनाभिः, सकारात्मकदृष्ट्या च सदसि प्रस्तुतयेयुः।

सम्राटचौधरी विधायकान् विधानसभायाः कार्यप्रणाली, नियमाः, संसदीयपरम्पराश्च गम्भीरतया अध्येतुम् आग्रहितवान्। तेन उक्तं यत् एतेन लोकतान्त्रिकसंस्थाः अधिकं प्रभावशालिन्यः सुदृढाश्च भविष्यन्ति।

मुख्यमन्त्री अवदत् यत् विधानसभायां सत्तापक्षस्य विपक्षस्य च रचनात्मकभूमिका समानरूपेण आवश्यकास्ति। स्वस्थसंवादः, सार्थकविमर्शः, जनहितस्य सर्वोच्चप्राधान्यं च सदनस्य गरिमां वर्धयन्ति तथा राज्यस्य विकासाय गतिं प्रददति।

मुख्यमन्त्री विधायकान् विधानसभासत्रेषु अधिककालं सदसि उपस्थितिं कर्तुं जनहितसम्बद्धविषयेषु सक्रियभागीदारीं च निर्वोढुम् आहूतवान्। तेन उक्तं यत् लोकतन्त्रस्य सुदृढीकरणाय सर्वैः जनप्रतिनिधिभिः स्वकर्तव्यं पूर्णउत्तरदायित्वेन निर्वहणीयम्।

सम्राटचौधरी उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः विकसितभारतसंकल्पस्य सिद्ध्यर्थं सामूहिकप्रयत्नाः अनिवार्याः सन्ति। जनकल्याणकारीयोजनानां लाभः समाजस्य अन्तिमजनपर्यन्तं प्रापयितुं न केवलं शासनस्य, अपितु प्रत्येकस्य विधायकस्य जनप्रतिनिधेश्च दायित्वम् अस्ति।

मुख्यमन्त्री विधानसभायाः कार्यप्रणालीं आधुनिकां, पारदर्शिनीं, प्रभावशालिनीं च कर्तुं कृत्रिमबुद्धिमत्ता (एआई) सहितानां नूतनप्रौद्योगिकीनां उपयोगे बलम् अददात्। तेन उक्तं यत् प्रौद्योगिक्याः उपयोगेन विधायिकाकार्येषु पारदर्शिता, कार्यदक्षता, उत्तरदायित्वबोधश्च वर्धिष्यते। तेन अपि सूचितं यत् राज्यशासनं सार्वजनिकनिजीभागिताप्रतिमानस्य माध्यमेन बसस्थानकानां, टाउनशिपपरियोजनानां, अन्याधारभूतसंरचनापरियोजनानां च कार्याणि शीघ्रतया प्रचलयति, येन बिहारस्य विकासाय नूतना दिङ् प्रदास्यते।

सम्राटचौधरी राज्यशासनस्य ‘सहयोग’ कार्यक्रमस्य उल्लेखं कृत्वा विधायकान् तस्मिन् सक्रियभूमिकां निर्वोढुम् आह्वयत्। तेन उक्तं यत् जनप्रतिनिधीनां सहभागितया सामान्यजनानां समये न्यायप्राप्तिः उत्तमसरकारीयसेवानां च उपलब्धिः सुलभा भविष्यति।

शिक्षाक्षेत्रे शासनस्य उपलब्धीनां उल्लेखं कुर्वन् मुख्यमन्त्री उक्तवान् यत् जुलाईमासस्य पञ्चदशदिनाङ्कात् बिहारराज्यस्य विभिन्नेषु प्रखण्डेषु त्रयोदशाधिकद्विशतं (२१३) नूतनस्नातकमहाविद्यालयानां शुभारम्भः भविष्यति। तेन उक्तं यत् एषः निर्णयः उच्चशिक्षायाः विस्ताराय ग्रामीणदूरवर्तीप्रदेशेषु अध्ययनरतविद्यार्थिनां कृते गुणवत्तायुक्तशिक्षायाः उपलब्ध्यर्थं च महत्त्वपूर्णः भविष्यति।

अन्ते मुख्यमन्त्री विश्वासं व्यक्तवान् यत् गयाज्यां आयोजितः अयं द्विदिवसीयः प्रबोधनकार्यक्रमः नवनिर्वाचितान् विधायकान् संसदीयपरम्परासु, विधायिकादायित्वेषु, जनसेवाभावनायां च अधिकं सुदृढीकर्तुं मार्गदर्शनं प्रदास्यति। तेन पुनरुक्तं यत् सक्षमैः विधायकैः सशक्तया विधानसभया च समृद्धबिहारस्य लक्ष्यं सफलतया साधयितुं शक्यते।

----------------

Hindusthan Samachar / Dheeraj Maithani