Enter your Email Address to subscribe to our newsletters


गयाजी, 11 जुलाईमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् शनिवासरे उक्तवान् यत् लोकतन्त्रे विचारवैभिन्न्यं स्वाभाविकम् अस्ति, किन्तु संविधानस्य जनकल्याणस्य च प्रति प्रतिबद्धता सर्वोपरी भवितुमर्हति। सः उक्तवान् यत् विकसितभारतस्य लक्ष्यम् अवाप्तुं बिहारस्य समग्रविकासः अत्यावश्यकः अस्ति तथा च विकसितबिहारं विना विकसितभारतस्य परिकल्पना अपूर्णा एव भवति।
गयानगरे स्थिते बिहारलोकप्रशासनग्रामीणविकाससंस्थाने अष्टादशबिहारविधानसभायाः नवनिर्वाचितसदस्यानां कृते आयोजितस्य द्विदिवसीयाभिमुखीकरणकार्यक्रमस्य उद्घाटनसत्रं सम्बोधयन् उपराष्ट्रपतिः विधायकान् जनहितं सर्वोच्चप्राथमिकतारूपेण स्वीकर्तुम् आहूतवान्। सः उक्तवान् यत् लोकतान्त्रिकव्यवस्थायां राजनैतिकदलानां मध्ये मतभेदाः स्वाभाविकाः भवन्ति, किन्तु जनसेवायाः विकासस्य च विषयेषु सर्वे जनप्रतिनिधयः मिलित्वा कार्यं कुर्वन्तु।
सः उक्तवान् यत् बिहारस्य देशस्य इतिहासे गौरवपूर्णं योगदानम् अस्ति। स्वतन्त्रतासंग्रामात् आरभ्य आपत्कालस्य विरोधे प्रवृत्तस्य द्वितीयस्वातन्त्र्यआन्दोलनपर्यन्तं बिहारः राष्ट्रियराजनीतये नवीनां दिशां प्रदत्तवान्। उपराष्ट्रपतिः अवदत् यत् आपत्कालस्य समये सः महाविद्यालयस्य छात्ररूपेण लोकनायकजयप्रकाशनारायणस्य नेतृत्वे सञ्चालितेन आन्दोलननेन सम्बद्धः आसीत् तथा च तस्य कालस्य अनुभवान् तस्य सार्वजनिकजीवने राजनैतिकचिन्तने च गम्भीरं प्रभावम् अकुर्वन्।
राधाकृष्णन् उक्तवान् यत् बिहारः देशाय अनेके महान् व्यक्तित्वान् प्रदत्तवान्। भारतस्य प्रथमराष्ट्रपतिः डॉ. राजेन्द्रप्रसादः, लोकनायकजयप्रकाशनारायणः, जननायककर्पूरीठाकुरः च स्वस्य सम्पूर्णजीवनं समाजस्य वञ्चितदरिद्रवर्गयोः उत्थानाय समर्पितवन्तः। सः उक्तवान् यत् एतेषां महानां नेतॄणाम् आदर्शाः अद्यापि जनप्रतिनिधीनां प्रेरणास्रोतः सन्ति।
सः उक्तवान् यत् निर्वाचनानि राजनैतिकदलानाम् आधारेण भवन्ति, किन्तु निर्वाचनसमाप्तेः अनन्तरं सर्वेषां निर्वाचितप्रतिनिधीनां प्रथमा उत्तरदायित्वं जनहितस्य संरक्षणं राज्यस्य विकासाय च मिलित्वा कार्यकरणम् अस्ति। सदने विचाराः पृथक् भवितुम् अर्हन्ति, किन्तु संविधानम् सर्वेषां समानमार्गदर्शकम् अस्ति तथा तस्य भावनानुरूपमेव विधायिकाकार्यं भवेत्।
उपराष्ट्रपतिः विधायिकाकार्याणाम् अधिकप्रभाविकारितां पारदर्शितां च वर्धयितुं आधुनिकप्रौद्योगिक्याः भूमिकामपि विशेषरूपेण प्रतिपादितवान्। सः उक्तवान् यत् डिजिटलयुगे जनप्रतिनिधिभिः कृत्रिमबुद्धिमत्ता सहितानां नूतनप्रौद्योगिकीनां ज्ञानम् अवश्यम् उपार्जनीयम्। सः अनुभवीनपि विधायकान् परिवर्तमानप्रौद्योगिक्यानुसारं स्वान् निरन्तरम् अद्यतनान् कर्तुम् आग्रहं कृतवान्, येन विधानमण्डलस्य कार्यप्रणाली अधिकप्रभाविनी भवेत्।
उल्लेखनीयम् अस्ति यत् उपराष्ट्रपतिः सी.पी. राधाकृष्णन् गयानगरे स्थिते बिहारलोकप्रशासनग्रामीणविकाससंस्थाने अष्टादशबिहारविधानसभायाः सदस्येभ्यः आयोजितस्य प्रशिक्षणकार्यक्रमस्य उद्घाटनम् अकरोत्। अस्मिन् अवसरे बिहारस्य राज्यपालः लेफ्टिनेन्ट जनरल सेवानिवृत्तः सैयद अता हसनैन, मुख्यमन्त्री सम्राट चौधरी, बिहारविधानसभाध्यक्षः डॉ. प्रेमकुमारः, बिहारविधानपरिषदः सभापतिः अवधेशनारायणसिंहः तथा अन्ये अनेके जनप्रतिनिधयः गणमान्यजनाश्च उपस्थिताः आसन्।--------------
Hindusthan Samachar / Dheeraj Maithani