Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, ११ जुलाईमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सरमा भारतीयजनतापक्षस्य नवनिर्वाचितैः विधायकैः सह सभाम् अकरोत्। विधायकैः सह सम्पन्नां सभां सार्थकां वर्णयन् मुख्यमन्त्री अवदत् यत् जनसेवायां तेषां प्रतिबद्धता राज्यस्य विकासाय च तेषां दृढसंकल्पः अत्यन्तं प्रशंसनीयः अस्ति।
मुख्यमन्त्री अद्य सामाजिकमाध्यमेषु प्रकाशिते स्वसन्देशे उक्तवान् यत् विधायकैः सह विचारविमर्शस्य समये तेषां चिन्तनम्, कार्ये समर्पणभावः तथा जनसेवायाः उत्साहः स्पष्टतया दृष्टिगोचरः अभवत्।
सः विश्वासं व्यक्तवान् यत् युवाशक्तेः, अनुभवस्य तथा नवीनचिन्तनस्य समन्वयेन निर्मिता भाजपाविधायकानां टोली जनसेवां अधिकां प्रभावकारिणीं, रचनात्मकां जनोन्मुखीं च करिष्यति। मुख्यमन्त्री सर्वेभ्यः नवनिर्वाचितेभ्यः विधायकेभ्यः शुभकामनाः प्रदाय उक्तवान् यत् ते जनापेक्षासु सफलाः भविष्यन्ति तथा विकसित-असम-निर्माणे महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।
Hindusthan Samachar / Divya Ranjan