भारत-न्यूजीलैण्डदेशयोः सम्बन्धान् नवीनदिशां प्रति नेतुं डेविड-लैङ्ग-महोदयस्य महत्त्वपूर्णा भूमिका आसीत् - जयराम-रमेशः
नवदेहली, ११ जुलाईमास: (हि.स.)। प्रधानमन्त्रिण: नरेन्द्रमोदिनः न्यूजीलैण्डदेश-भ्रमणस्य मध्ये काङ्ग्रेस-पक्षस्य महासचिवः जयराम-रमेशः न्यूजीलैण्डस्य पूर्वप्रधानमन्त्रिणं डेविड-लैङ्ग-महोदयं स्मरन् अवदत् यत् भारत-न्यूजीलैण्डदेशयोः सम्बन्धान् नवीनदिशां प
कांग्रेस महासचिव (संचार) जयराम रमेश (फाइल फोटो)।


नवदेहली, ११ जुलाईमास: (हि.स.)। प्रधानमन्त्रिण: नरेन्द्रमोदिनः न्यूजीलैण्डदेश-भ्रमणस्य मध्ये काङ्ग्रेस-पक्षस्य महासचिवः जयराम-रमेशः न्यूजीलैण्डस्य पूर्वप्रधानमन्त्रिणं डेविड-लैङ्ग-महोदयं स्मरन् अवदत् यत् भारत-न्यूजीलैण्डदेशयोः सम्बन्धान् नवीनदिशां प्रति नेतुं तस्य महत्त्वपूर्णा भूमिका आसीत्। तेन उक्तं यत् १९८०-दशके डेविड-लैङ्गस्य नेतृत्वे उभयदेशयोः सम्बन्धेषु नूतना ऊर्जा समागता तथा द्विपक्षीयसहयोगः सुदृढः अभवत्।

जयराम-रमेशः सामाजिकमाध्यमे एक्स इत्यत्र प्रकाशिते सन्देशे अवदत् यत् डेविड-लैङ्गः १९८४ तमस्य वर्षस्य जुलाईमासात् १९८९ पर्यन्तं न्यूजीलैण्डस्य प्रधानमन्त्री आसीत्, तथा १९८४ तमस्य वर्षस्य अक्टोबरमासे तस्य प्रथमं विदेशभ्रमणं भारतदेशं प्रति अभवत्। सः तत्कालीनप्रधानमन्त्रिणा इन्दिरा-गान्धी-महोदयया सह घनिष्ठसम्बन्धान् स्थापितवान्, अनन्तरं राजीव-गान्धी-महोदयेन सह अपि तस्य वैयक्तिकः सम्बन्धः अत्यन्तं सुदृढः आसीत्।

तेन उक्तं यत् डेविड-लैङ्गस्य पुत्रः रॉय-लैङ्गः भारतेन सह विशेषसम्बद्धः आसीत्। सः देहली-विश्वविद्यालये शिक्षां प्राप्तवान्, अनन्तरं भारतीयमूलोत्पन्नया मीता-भौमिक-महोदयया सह विवाहम् अकरोत्। सा अधुना ऑस्ट्रेलियादेशे सुप्रसिद्धा चलचित्रनिर्मात्री अस्ति।

रमेशः अवदत् यत् १९५०-दशके भारत-न्यूजीलैण्डदेशयोः मध्ये सुदृढः सहयोगः आसीत्। तस्मिन् काले न्यूजीलैण्डदेशेन भारतस्य दुग्धक्षेत्रस्य विकासे सहायता प्रदत्ता, तथा च अखिलभारतीय-आयुर्विज्ञान-संस्थानस्य स्थापनायामपि सहयोगः कृतः। भारतस्य श्वेतक्रान्तेः जनकः डॉ.वर्गीज-कुरियनः १९५२–५३ तमे वर्षे भारतसर्वकारेण अध्येतृवृत्त्या न्यूजीलैण्डदेशं प्रेषितः, यत्र प्राप्तानुभवाः तस्य कार्याणि गम्भीरतया प्रभावितवन्तः।

तेन उक्तं यत् १९६० तथा १९७० दशकयोः उभयदेशयोः सम्बन्धा: अपेक्षया न्यूना: अभवन्, किन्तु डेविड-लैङ्गस्य प्रधानमन्त्रीपदग्रहणानन्तरं सम्बन्धेषु पुनः उष्णता समागता। अस्यैव क्रमस्य अन्तर्गतं तेन पर्वतारोही सर एडमण्ड-हिलेरी भारते न्यूजीलैण्डस्य उच्चायुक्तरूपेण नियुक्तः। नवदेहल्याः कूटनीतिकक्षेत्रे एका मार्गिका एडमण्ड-हिलेरी-महोदयस्य नाम्ना प्रसिद्धा अस्ति, अपरः मार्गः तेनजिङ्-नोर्गे-महोदयस्य सम्मानार्थं नामितः अस्ति। उभाभ्याम् १९५३ तमस्य वर्षस्य मईमासस्य २९ दिनाङ्के प्रथमवारं माउण्ट-एवरेस्ट-शिखरम् आरुह्य इतिहासः रचितः।

रमेशः अवदत् यत् डेविड-लैङ्गस्य कार्यकालः भारत-न्यूजीलैण्ड-सम्बन्धानां इतिहासे महत्त्वपूर्ण-अध्यायरूपेण सदा स्मरणीयः भविष्यति।

Hindusthan Samachar / Divya Ranjan