Enter your Email Address to subscribe to our newsletters

हवाना, 11 जुलाईमासः (हि.स.)।
लैटिनअमेरिकादेशस्य द्वीपराष्ट्रे क्यूबादेशे पञ्चदिनानाम् अन्तरे द्वितीयवारं सम्पूर्णदेशस्य विद्युत्प्रणाली पूर्णतया स्थगिता अभवत्। शुक्रवासरे स्थानीयसमयानुसारं सायंकाले सार्धचतुर्वादने राष्ट्रियविद्युज्जालं पूर्णतया निष्क्रियीजातम्, येन सम्पूर्णद्वीपे विद्युत्पूर्तिः बाधिता अभवत्।
जनवरीमासात् आरभ्य एषा समस्या अधिका गम्भीरा अभवत्, यदा अमेरिकादेशस्य राष्ट्रपति डोनाल्ड ट्रम्पः क्यूबादेशाय विदेशीयतैलपूर्तिं प्रायः सम्पूर्णतया निरुद्धवान्। ईरानस्य सरकारीयमाध्यमेन प्रेसटीवी इत्यनेन प्रकाशितानुसारं सामाजिकमाध्यममञ्चे एक्स इति क्यूबादेशस्य सर्वकारीयविद्युत्संस्था यूनियन इलेक्ट्रिका इत्यनेन सूचितं यत् राष्ट्रियविद्युत्प्रणाली आकस्मिकतया स्थगिता अभवत्, येन देशव्यापिनी विद्युत्पूर्तिः निरुद्धा। तथापि विद्युत्प्रणाल्याः स्थगनस्य तात्कालिककारणं न प्रकाशितम्। एषा घटना सोमवासरे अभवत् देशव्यापिविद्युत्विच्छेदस्य कतिपयदिनानन्तरम् एव अभवत्। तस्मिन् समये विद्युत्विभागेन मङ्गलवासरस्य रात्रिपर्यन्तं अधिकांशः विद्युत्जालः पुनः स्थापितः, बुधवासरस्य प्रातःकाले च सर्वेषु प्रान्तेषु विद्युत्पूर्तिः सामान्यावस्थां प्राप्ता इति पुष्टिः कृता।
क्यूबादेशे अतीतेषु कतिपयमासेषु विद्युत्सङ्कटं निरन्तरं वर्धमानम् अस्ति। विशेषज्ञानाम् अनुसारेण देशस्य अधिकांशः विद्युताधारः उन्नविंशतिशताब्द्याः षष्टितमदशकात् अशीतितमदशकपर्यन्तस्य कालस्य अस्ति तथा च दीर्घकालात् अनुरक्षणस्य, इन्धनस्य, आधुनिकोपकरणानां च अभावेन पीड्यते। मार्चमासे अपि सम्पूर्णदेशे द्विवारं विद्युत्पूर्तेः विच्छेदः अभिलेखितः आसीत्। ऊर्जासङ्कटस्य प्रमुखकारणेषु विदेशीयतैलपूर्तेः न्यूनता अपि परिगण्यते।
अमेरिकादेशस्य राष्ट्रपति डोनाल्ड ट्रम्पस्य द्वितीयकार्यकाले क्यूबादेशे आरोपितानां कठोरप्रतिबन्धानां तथा तैलपूर्तिनियन्त्रणस्य अनन्तरं देशे इन्धनसङ्कटम् अधिकं गम्भीरम् अभवत्। क्यूबादेशः स्वस्य समग्रतैलावश्यकतायाः केवलं प्रायः चत्वारिंशत्प्रतिशतम् एव स्वदेशीयोत्पादनेन पूरयति, अवशिष्टं तैलम् आयातेन प्राप्नोति।
उल्लेखनीयम् अस्ति यत् जनवरीमासस्य तृतीये दिने अमेरिकादेशेन वेनेजुएलादेशस्य राष्ट्रपति निकोलस मादुरो एकस्मिन् सैन्याभियाने गृहीत्वा न्यूयार्कनगरं नीतः, यत्र सः मादकद्रव्यशस्त्रसम्बद्धाभियोगयोः कारणेन कारागारे निरुद्धः अस्ति। ततः किञ्चित्कालानन्तरं ट्रम्पः घोषणाम् अकरोत् यत् वेनेजुएलादेशः अधुना क्यूबादेशाय न तैलं न वित्तं प्रेषयिष्यति। तदनन्तरं तस्य प्रशासनम् वेनेजुएलादेशस्य तैलनिर्यातस्य नियन्त्रणं निरन्तरं धारयति। अनन्तरं जनवरीमासस्य नवविंशतितमे दिने ट्रम्पः आदेशम् अयच्छत् यस्मिन् उक्तं यत् क्यूबादेशः अमेरिकादेशस्य कृते असामान्यम् असाधारणं च संकटम् अस्ति। अस्य आदेशस्य अन्तर्गतं ये देशाः क्यूबादेशाय इन्धनपूर्तिं करिष्यन्ति तेषां विरुद्धं गुरुतरशुल्कारोपणस्य सञ्चेतना अपि प्रदत्ता। ततः आरभ्य रूसदेशात् केवलम् एकः एव तैलवाहकपोतः मार्चमासे क्यूबादेशम् अगच्छत्।
अन्ताराष्ट्रियस्य ऊर्जाअभिकरणस्य अनुसारेण २०२३ तमवर्षपर्यन्तं क्यूबादेशः स्वस्य तैलावश्यकतायाः केवलं चत्वारिंशत्प्रतिशतम् एव उत्पादयति। अवशिष्टं तैलं विदेशेभ्यः आयात्य पूर्यते।
-------------
Hindusthan Samachar / Dheeraj Maithani