Enter your Email Address to subscribe to our newsletters

अजमेरनगरम्, ११ जुलाईमासः (हि.स.)। महर्षिदयानन्दसरस्वतीविश्वविद्यालयेन परिसरस्य समग्रविकासाय, सुव्यवस्थित-रक्षणाय तथा सांस्कृतिक-परम्परायाः संरक्षणाय महत्त्वपूर्णः प्रयत्नः कृतः। तदन्तर्गतं परिसरविकास-सांस्कृतिक-संरक्षणप्रकोष्ठः गठितः। कुलगुरोः प्रो.सुरेशकुमार-अग्रवालस्य अनुमोदनेन गठितस्य अस्य प्रकोष्ठस्य अध्यक्षः पर्यावरणविज्ञान-विभागाध्यक्षः प्रो. सुब्रतदत्तः नियुक्तः। प्रो. सुभाषचन्द्रः, राजेन्द्रः तिवारी तथा सीतारामः जोशी सदस्यत्वेन नियुक्ताः।
कुलगुरुः प्रो.अग्रवालः अवदत् यत् विश्वविद्यालयः केवलं शिक्षायाः केन्द्रं नास्ति, अपितु भारतीयसंस्कृतेः, मूल्यबोधस्य तथा सामाजिक-उत्तरदायित्वस्य अपि प्रतीकः अस्ति। परिसरस्य विकासः केवलं निर्माणकार्येषु सीमितः नास्ति, अपितु स्वच्छस्य, पर्यावरणानुकूलस्य तथा सांस्कृतिक-दृष्ट्या समृद्धस्य वातावरणस्य निर्माणम् अपि तस्य प्राथमिकता अस्ति।
विश्वविद्यालयप्रशासनेन परिसरस्थाः भगवतः गणेशस्य, मातुः सरस्वत्याः, महर्षिदयानन्दसरस्वत्याः तथा अन्येषां महापुरुषाणां प्रतिमानां संरक्षणम्, स्वच्छता, माल्यार्पणम्, गरिमापूर्णरक्षणं च शिक्षणविभागेभ्यः प्रशासनिकशाखाभ्यश्च वार्षिककार्यसूच्याः आधारेण दातुं निर्णयः कृतः। प्रत्येकं विभागः वर्षे न्यूनातिन्यूनम् एकवारम् एतां उत्तरदायित्वं निर्वहिष्यति।प्रशासनस्य अनुसारेण २० जुलाईमासात् आरभ्य एषा नूतना व्यवस्था प्रवर्तिष्यते। कुलगुरुः विश्वासं व्यक्तवान् यत् एषः प्रयत्नः मम विश्वविद्यालयः मम उत्तरदायित्वम् इति भावनां सुदृढां करिष्यति तथा विद्यार्थिषु, अध्यापकेषु, कर्मचारिषु च स्वच्छतायाः, पर्यावरण-संरक्षणस्य तथा भारतीय-सांस्कृतिकमूल्यानि प्रति आदरभावं वर्धयिष्यति।
Hindusthan Samachar / Divya Ranjan