Enter your Email Address to subscribe to our newsletters


– मुख्यमन्त्रिणा डॉ. यादवेन इन्दौरनगरे पुण्योदय-प्रकल्प-कार्यक्रमः सम्बोधितः
– छात्राभ्यः महापुरुषाणां जीवनचरित-आधारितानि पुस्तकानि लेखन-पुस्तिकाश्च वितरिताः
भोपालनगरम्, ११ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् शिक्षा एव समाजे परिवर्तनस्य महान् सशक्तश्च माध्यमम् अस्ति। अस्माकं सांदीपनि-विद्यालयाः, पीएम-श्री-विद्यालयाः तथा प्रधानमन्त्री-उत्कृष्टता-महाविद्यालयाः इति रूपेण प्रदेशे शिक्षायाः त्रिवेणी निर्मीयते। मुख्यमन्त्री उक्तवान् यत् मध्यप्रदेशेन प्राथमिक-शालेय-शिक्षास्तरे विद्यालय-त्याग-दरं शून्यं कर्तुं ऐतिहासिकी उपलब्धिः प्राप्ता। अस्माकं सांदीपनि-विद्यालय-प्रतिमानस्य समग्रे देशे प्रशंसा क्रियते।
मुख्यमन्त्री डॉ.मोहनयादवः शनिवासरे इन्दौरनगरे हिन्द-रक्षक-पुण्योदय-प्रकल्पस्य कार्यक्रमं सम्बोधयन् आसीत्। अस्मिन् अवसरे तेन छात्राभ्यः राष्ट्रस्य महापुरुषाणां जीवनचरिताधारितानि निःशुल्कपुस्तकानि लेखनपुस्तिकाश्च वितरितानि। मुख्यमन्त्री छात्राभिः सह संवादं कृत्वा ताभ्यः स्नेहपूर्वकं उज्ज्वल-भविष्यस्य शुभाशिषम् अपि दत्तवान्।
मुख्यमन्त्री उक्तवान् यत् अस्माकं सर्वकारः बालकेभ्यः विश्वस्तरीय-शिक्षां प्रदातुं संकल्पितः अस्ति। बालकाः सम्यक् पठेयुः, लिखेयुः, जीवने प्रगतिं कुर्युः इति हेतोः राष्ट्रिय-शिक्षा-नीति-२०२०-अनुसारं आधुनिक-रीत्या गुणवत्तायुक्तां, रोजगार-उन्मुखीं संस्कारयुक्तां च शिक्षां प्रदातुं निरन्तरं प्रयत्नाः क्रियन्ते।
मुख्यमन्त्री उक्तवान् यत् अस्मिन् वर्षे मण्डल-परीक्षासु शासकीय-विद्यालयानां प्रदर्शनम् अत्युत्तमम् आसीत्। शासकीय-विद्यालयानां परिणामाः निजी-विद्यालयेभ्यः अपि श्रेष्ठाः अभवन्। तेन उक्तं यत् अस्मिन् वर्षे सांदीपनि-विद्यालयानां अष्टपञ्चाशत् विद्यार्थिनः राज्यस्तरीय-मेधा-सूच्यां स्थानं प्राप्तवन्तः।
मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः मार्गदर्शनेन राजनीतेः अपेक्षया राष्ट्रहितं सर्वोपरि, राष्ट्रं प्रथमम् इति नीतिम् आधारीकृत्य समाज-सुधाराय जन-प्रेरणाय च अनेके कार्यक्रमा: सञ्चाल्यन्ते। हिन्द-रक्षक-सङ्घटनस्य संस्थापकः जननेता च स्वर्गीयः लक्ष्मणसिंहगौडः युवाशक्तेः प्रेरणास्रोतः आसीत्। तेन समाजस्य हितार्थं तत्कालीन-सर्वकारस्य कुशासनस्य विरुद्धम् स्वरः उत्थापितः। अहम् अपि तस्य सहयोगी भवितुं सौभाग्यं प्राप्तवान्। अद्य तस्य अष्टषष्टितमे जन्मदिवसे पुण्योदय-प्रकल्पस्य माध्यमेन प्रतिवर्षं षष्टिसहस्राधिकेभ्यः विद्यार्थिभ्यः लेखनपुस्तिका:, पुस्तकानि च महापुरुषाणां प्रेरक-जीवन-प्रसङ्ग-आधारिता: ग्रन्था: वितर्यन्ते। हिन्द-रक्षक-प्रकल्पस्य अयं प्रयत्नः अत्यन्तं प्रशंसनीयः अस्ति।
मुख्यमन्त्री उक्तवान् यत् भगवत: श्रीकृष्णस्य सुदाम्ना सह मैत्री अद्यापि समाजं प्रेरयति। युवानः अस्मात् आदर्शात् प्रेरणां गृह्णन्तु तथा निर्धनानां आवश्यकतायुक्तानां मित्राणां साहाय्यार्थं सर्वदा सज्जाः भवन्तु। राज्यसर्वकारेण गुरु-पूर्णिमा-महोत्सवं भव्यतया आयोजयितुं निर्णयः कृतः। बालकानां उज्ज्वल-भविष्याय प्रदेशे भव्याः सांदीपनि-विद्यालयाः निर्मिताः। राज्य-सर्वकारस्य प्रयत्नैः शालेय-शिक्षा-व्यवस्थायां व्यापकः सुधारः दृश्यते। प्रदेशस्य शासकीय-विद्यालयेषु छात्र-छात्राणां विद्यालय-त्याग-दरः शून्यः जातः। अधुना प्रदेशस्य कश्चिदपि पुत्रः पुत्री वा शिक्षायाः वञ्चितः न भविष्यति।
पुण्योदय-प्रकल्पस्य संयोजकः एकलव्यगौडः उक्तवान् यत् हिन्द-रक्षक-प्रकल्पस्य संस्थापकः स्वर्गीयः लक्ष्मणसिंहगौडः वर्षे २००४ तमे अस्य प्रकल्पस्य प्रारम्भम् अकरोत्। अस्याः योजनायाः अन्तर्गतं जुलाईमासस्य ११ दिनाङ्कात् अगस्तमासस्य ११ दिनाङ्कपर्यन्तं एकमासावधौ षष्टि-सहस्राधिकेभ्यः शालेय-विद्यार्थिभ्यः त्रिलक्षाधिकाः लेखनपुस्तिकाः पुस्तकानि च वितरिष्यन्ते। सर्वे विद्यार्थिन: एतेषां सदुपयोगं कुर्वन्तु।
अस्मिन् अवसरे जलसंसाधनमन्त्री तुलसीराम-सिलावटः, इन्दौर-सांसदः शङ्करलालवानी, पूर्वमन्त्री तथा विधायक ऊषासिंहः, पूर्वराज्यमन्त्री तथा विधायक: महेन्द्रहार्डिया, विधायिका मालिनीगौडः, विधायक गोलूशुक्लः, विधायक भगवानदास-सबनानी, मध्यप्रदेश-राज्य-सहकारी-अनुसूचित-जाति-वित्त-विकास-निगमस्य अध्यक्षः सावनसोनकरः, समाजसेविनौ गौरव-रणदिवे, श्रवण-चावडा, सुमित-मिश्रः तथा अन्ये जनप्रतिनिधयः बहुसंख्यकाः शालेय-विद्यार्थिनश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan