Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, ११ जुलाउमासः (हि.स.)। ओडिशा-सर्वकारेण प्रथमात् अष्टमकक्षा-पर्यन्तानां पाठ्यपुस्तकेषु दृष्टानां गम्भीरत्रुटीनां प्रकरणे महत्त्वपूर्णः निर्णयः कृतः। मुख्यमन्त्री मोहनचरणमाझी एतत् सम्पूर्णं प्रकरणम् अत्यन्तगम्भीरतया स्वीकृत्य सम्पूर्णप्रक्रियायाः आपराधिक-अन्वेषणं कर्तुं निर्देशान् प्रदत्तवान्।
मुख्यमन्त्रिणा राज्य-शैक्षिक-अनुसन्धान-प्रशिक्षण-परिषदः निदेशकाय अपि निर्देशः प्रदत्तः यत् अस्मिन् विषये अपराध-शाखायाः आरक्षक-अधीक्षकस्य पुरतः प्राथमिकी पञ्जीकर्तव्या, येन सम्पूर्णस्य घटनाक्रमस्य निष्पक्षं व्यापकं च अन्वेषणं भवेत् तथा दोषिणां विरुद्धं विधिसम्मता कार्यवाही सुनिश्चितीक्रियेत।
उल्लेखनीयं यत् एतस्मात् पूर्वं मुख्यमन्त्रिणा पाठ्यपुस्तकेषु जातानां त्रुटीनां कारणानां परीक्षणार्थं विकास-आयुक्तस्य अध्यक्षतायां उच्चस्तरीय-समितेः गठनं कृतम् आसीत्। समित्या प्रस्तुतायाः प्रतिवेदनस्य आधारेण एससीईआरटी-संस्थायाः तत्कालीनः निदेशकः तथा त्रयः सहायक-निदेशकाः निलम्बिताः।
एतदतिरिक्तं अन्येषां षण्णां सहायक-निदेशकानां विरुद्धं विभागीय-अनुशासनात्मक-कार्यवाही आरब्धुं निर्देशाः अपि प्रदत्ताः।
अधुना मुख्यमन्त्रिणः नवीननिर्देशानन्तरम् एतत् प्रकरणं केवलं विभागीय-कार्यवाह्याः परिसीमायां न भविष्यति, अपितु तस्य आपराधिक-अन्वेषणमपि भविष्यति। सर्वकारेण उक्तं यत् अन्वेषणकाले यदि कस्मिंश्चिदपि स्तरे प्रमादः, कदाचारः अथवा आपराधिकदायित्वं प्रकाशं गच्छति, तर्हि सम्बद्धाधिकारिणां विरुद्धं विध्यानुसारं कठोरतमा कार्यवाही विधास्यते।
Hindusthan Samachar / Divya Ranjan