दिल्लीसर्वकारः अभिलेखागार एवं पुरातत्व अनुसंधान फेलोशिप योजनाभ्यः अददात्सहमतिम्
नव दिल्ली, 11 जुलाईमासः (हि.स.)। दिल्लीसर्वकारेण राजधानीनगरस्य ऐतिहासिकसांस्कृतिकविरासतस्य संरक्षणाय अनुसन्धानस्य प्रोत्साहनाय च अभिलेखागार अनुसन्धानवृत्तियोजना तथा पुरातत्त्व अनुसन्धानवृत्तियोजना इत्येते योजनाद्वयं अनुमोदितम्। एताभ्यां योजनाभ्यां
दिल्ली सचिवालय में समीक्षा बैठक करती मुख्यमंत्री रेखा गुप्ता


नव दिल्ली, 11 जुलाईमासः (हि.स.)। दिल्लीसर्वकारेण राजधानीनगरस्य ऐतिहासिकसांस्कृतिकविरासतस्य संरक्षणाय अनुसन्धानस्य प्रोत्साहनाय च अभिलेखागार अनुसन्धानवृत्तियोजना तथा पुरातत्त्व अनुसन्धानवृत्तियोजना इत्येते योजनाद्वयं अनुमोदितम्। एताभ्यां योजनाभ्यां दिल्लीनगरस्य इतिहासः अनुसन्धानाधारितेन प्रमाणिकरूपेण संरक्ष्यते। देशविदेशस्थितानां अनुसन्धानकर्तृणां नूतनपीढ्याः च समीपे तस्य व्यापकप्राप्यता अपि सुनिश्चितीक्रियते।

मुख्यमन्त्री रेखा गुप्ता शनिवासरे प्रकाशितायां विज्ञप्तौ उक्तवती यत् दिल्ली केवलं देशस्य राजधानी एव नास्ति अपितु सहस्रवर्षीयस्य इतिहासस्य संस्कृतेः सभ्यतायाश्च सजीवधरोहररूपेण अपि वर्तते। अस्याः अमूल्यविरासतस्य संरक्षणं वैज्ञानिकाध्ययनं व्यवस्थितदस्तावेजीकरणं भाविपीढीभ्यः तस्य समुचितहस्तान्तरणं च सर्वकारस्य प्रमुखप्राथमिकतासु अन्तर्भवति। एतस्यैव उद्देशस्य पूर्त्यर्थं योजनाद्वयं स्वीकृतम्।

मुख्यमन्त्री उक्तवती यत् अभिलेखागार अनुसन्धानवृत्तियोजनायाः अन्तर्गतं प्रतिवर्षम् एकवर्षीयावधये पञ्चदश अनुसन्धानवृत्तिधारिणः नियुक्ताः भविष्यन्ति। चयनितानां अनुसन्धानकर्तृणां कार्ययोग्यतयोः आधारेण प्रतिमासं पञ्चविंशतिसहस्ररूप्यकात् पञ्चाशत्सहस्ररूप्यकपर्यन्तं वृत्तिः प्रदास्यते।

सा अवदत् यत् अस्याः योजनायाः उद्देश्यं अभिलेखीयानुसन्धानस्य प्रोत्साहनं अभिलेखव्यवस्थापनस्य सुदृढीकरणं ऐतिहासिकदस्तावेजानां डिजिटलीकरणस्य संवर्धनं महत्त्वपूर्णाभिलेखानां प्रति अनुसन्धानकर्तृणां सामान्यजनानां च सुगमप्रवेशस्य सुनिश्चितीकरणं च अस्ति।

मुख्यमन्त्रिणः मते अस्याः योजनायाः अन्तर्गतं अभिलेखव्यवस्थापनम् अभिलेखसामग्रीणां संरक्षणं परिरक्षणं च अभिलेखानां डिजिटलीकरणम् सूचना तथा दत्तांशप्रसारणं सूक्ष्मचलच्चित्रनिर्माणं प्रतिलिपिनिर्माणं अनुसन्धानं प्रकाशनं च विशेषतया उर्दू फारसी इत्यादिभिः प्राच्यभाषाभिः सम्बद्धानां दस्तावेजानामध्ययनं च क्रियते। एषा वृत्तिः इतिहासविद्भ्यः अभिलेखविशेषज्ञेभ्यः संरक्षणविशेषज्ञेभ्यः भाषाविद्भ्यः विरासतविशेषज्ञेभ्यश्च संस्थागतस्तरे अनुसन्धानस्य अवसरं प्रदास्यति।

मुख्यमन्त्री अवदत् यत् पुरातत्त्व अनुसन्धानवृत्तियोजनायाः अन्तर्गतं प्रतिवर्षं द्वादश अनुसन्धानवृत्तिधारिणः नियुक्ताः भविष्यन्ति। तेभ्यः एकवर्षपर्यन्तं प्रतिमासं पञ्चविंशतिसहस्ररूप्यकात् पञ्चाशत्सहस्ररूप्यकपर्यन्तं वृत्तिः प्रदास्यते।

सा अवदत् यत् अस्याः योजनायाः प्रमुखोद्देश्यं दिल्लीनगरस्य समृद्धानां पुरातात्त्विकस्थलानां ऐतिहासिकस्मारकाणां सांस्कृतिकविरासतां च अध्ययनं संरक्षणं संवर्धनं च अस्ति। अस्याः माध्यमेन विशेषतः राजधानीनगरस्य अल्पप्रसिद्धानां ऐतिहासिकस्मारकाणां इतिहासपुरातत्त्ववास्तुशास्त्रसंरक्षणसम्बद्धानाम् अनुसन्धानानां प्रोत्साहनं भविष्यति। अनेन विरासतसंरक्षणेन सह पर्यटनक्षेत्रमपि नूतनगतिं प्राप्स्यति इति अपेक्षा अस्ति।

मुख्यमन्त्री रेखा गुप्ता उक्तवती यत् योजनाद्वयं अभिलेखपुरातत्त्वविरासतसंरक्षणक्षेत्रेषु प्रशिक्षितानां कुशलविशेषज्ञानां नूतनपीढीनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहिष्यति। अनेन शैक्षणिकानुसन्धानाय नूतना दिशा भविष्यति तथा च दिल्लीनगरस्य दस्तावेजीयपुरातात्त्विकविरासतयोः संरक्षणाय संस्थागतसुदृढता अपि भविष्यति।

सा अवदत् यत् योजनाद्वयस्य कृते पात्रता आवेदनप्रक्रिया चयनप्रक्रिया अन्ये नियमाः शर्ताश्च सम्बद्धविभागैः पृथक् विस्तृतनिर्देशरूपेण प्रकाशिताः भविष्यन्ति। परिचालनसम्बद्धनिर्देशानां प्रकाशनानन्तरं योजनाद्वयं शीघ्रमेव कार्यान्वितं भविष्यति इति अपेक्षा अस्ति।--------------

Hindusthan Samachar / Dheeraj Maithani