Enter your Email Address to subscribe to our newsletters



- देहरादूने पञ्चदिवसीयलोकसंवर्धनपर्वणः शुभारंभः
देहरादूनम्, 11 जुलाईमासः (हि.स.)। केन्द्रीय अल्पसंख्यककार्य मन्त्री किरेन रिजिजू उत्तराखण्डस्य मुख्यमन्त्रिणा पुष्करसिंहधामिना सह शनिवासरे देहरादूननगरस्य परेडग्राउण्डे पञ्चदिवसीयस्य षष्ठस्य लोकसंवर्धनपर्वणः शुभारम्भम् अकरोत्। अस्मिन् अवसरे रिजिजू अवदत् यत् लोकसंवर्धनपर्व केवलं प्रदर्शनी नास्ति, अपितु भारतस्य सांस्कृतिकवैविध्यस्य, पारम्परिककौशलस्य तथा शिल्पिकाराणां सम्मानस्य राष्ट्रियोत्सवः अस्ति।
केन्द्रीयमन्त्री अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः मार्गदर्शनेन केन्द्रसर्वकारः पारम्परिकशिल्पस्य, हस्तकलायाः, लोकसंस्कृतेः तथा अल्पसंख्यकसमुदायानां शिल्पिकाराणां राष्ट्रियवैश्विकविपण्योः संयोजनाय निरन्तरं कार्यं करोति। तेन उक्तं यत् प्रधानमन्त्रीसंपत्संवर्धन योजना पीएम विकास इत्यस्याः अन्तर्गतं आयोजितः अयं महोत्सवः शिल्पिभ्यः विपणनस्य, ब्राण्डनिर्माणस्य तथा जीविकायाः नूतनान् अवसरान् प्रददाति। अनेन शिल्पिभ्यः स्वकलायाः उत्पादानां च कृते व्यापकः विपणिः प्राप्यते।
केन्द्रीयमन्त्री उत्तराखण्डसर्वकारस्य प्रशंसां कृत्वा अवदत् यत् लोकसंवर्धनपर्वणः आयोजनार्थं केन्द्रीयाल्पसंख्यककार्य मन्त्रालयेन सह सहभागित्वं कर्तुं उत्तराखण्डः देशस्य प्रथमं राज्यम् अभवत्। तेन एतत् राज्यस्य सांस्कृतिकप्रतिबद्धतायाः विकासोन्मुखदृष्टेः च परिचायकम् इति उक्तम्। तेन उक्तं यत् एतादृशानि आयोजनानि देशस्य समृद्धसांस्कृतिकविरासतस्य संरक्षणे संवर्धने च महत्त्वपूर्णां भूमिकां निर्वहन्ति।
मुख्यमन्त्री धामी अवदत् यत् लोकसंवर्धनपर्वणः आयोजनार्थं केन्द्रीयाल्पसंख्यककार्य मन्त्रालयेन सह सहभागित्वं कर्तुं उत्तराखण्डः देशस्य प्रथमं राज्यम् अभवत्। तेन उक्तं यत् भारतस्य विविधाः भाषाः, लोकपरम्पराः, हस्तशिल्पानि तथा सांस्कृतिकविरासत् देशस्य महत्तमा शक्तिः अस्ति। एतादृशानि आयोजनानि सांस्कृतिकधरोहरस्य संरक्षणेन सह शिल्पिभ्यः लोककलाकारेभ्यः च नूतनान् विपणीन् रोजगारावकाशान् च प्रदातुं प्रभावी माध्यमानि भवन्ति।
तेन उक्तं यत् केन्द्रराज्यसर्वकारयोः समन्वितप्रयत्नैः आयोजितः अयं महोत्सवः उत्तराखण्डस्य गौरवस्य विषयः अस्ति। राज्यसर्वकारः हाउस आफ हिमालयाज तथा एकजनपद द्वे उत्पादे इत्यादियोजनाभिः स्थानीयोत्पादानां पारम्परिकशिल्पस्य च राष्ट्रियान्ताराष्ट्रियपरिचयं प्रदातुं निरन्तरं कार्यं करोति।
धामी प्रदेशवासिनः पर्यटकांश्च लोकसंवर्धनपर्वणि अधिकाधिकसंख्यया सहभागित्वाय आहूतवान्। तेन उक्तं यत् स्थानीयोत्पादानां क्रयणेन शिल्पिनां कारीगराणां च उत्साहवर्धनं भविष्यति।
पञ्चदशजुलाईपर्यन्तम् आयोजिते अस्मिन् महोत्सवे देशस्य विभिन्नराज्येभ्यः आगताः शिल्पिनः, हस्तशिल्पिनः, लोककलाकाराः, उद्यमिनः तथा पाककलाविशेषज्ञाः स्वीयां पारम्परिककलां, शिल्पं तथा स्थानीयोत्पादानि प्रदर्शयन्ति। महोत्सवे शतपञ्चाशदधिकाः प्रदर्शनीस्थलाः स्थापिताः सन्ति, येषु उत्तराखण्डसहितं विभिन्नराज्यानां लोककला, हस्तशिल्पानि, पारम्परिकोत्पादानि तथा पारम्परिकव्यञ्जनानि प्रदर्शितानि सन्ति। अस्मिन् अवसरे मुख्यमन्त्री केन्द्रीयमन्त्री च एकं वृक्षं मातुः नाम्ना इति अभियानस्य अन्तर्गतं पौधारोपणम् अपि अकुरुताम्।
---------------
Hindusthan Samachar / Dheeraj Maithani