Enter your Email Address to subscribe to our newsletters

इतिहासे जुलैमासस्य १२ दिनाङ्कः अनेकाभिः महत्त्वपूर्णाभिः घटनाभिः प्रसिद्धः अस्ति। क्रीडाजगति विशेषतः क्रिकेटक्रीडायामपि एषः दिनाङ्कः अत्यन्तं विशिष्टः अस्ति। २०१७ तमे वर्षे जुलैमासस्य १२ दिनाङ्के भारतस्य पूर्वा महान् महिला क्रिकेटक्रीडिका मिताली राज महिला क्रिकेटस्य इतिहासे नूतनमध्यायं लिखितवती। सा आईसीसी महिला क्रिकेट विश्वकप २०१७ प्रतियोगितायाम् ऑस्ट्रेलियादेशस्य विरुद्धं क्रीडिते स्पर्धायां महिला एकदिवसीय अन्ताराष्ट्रिय क्रिकेटे सर्वाधिकधावनिर्मात्री क्रीडिका इति गौरवं प्राप्तवती। एतेन उपलब्धिना सा इङ्ग्लण्डदेशस्य पूर्वा महान् क्रीडिका शार्लट एडवर्ड्स इत्यस्याः अभिलेखम् अतिक्रान्तवती।
मिताली राज स्वस्य उत्कृष्टक्रीडाजीवने भारतीयमहिला क्रिकेटं नूतनशिखरं प्रति नीतवती तथा च दीर्घकालं यावत् भारतीयमहिला क्रिकेटदलस्य नेतृत्वमपि कृतवती। तस्याः सातत्यं तन्त्रकौशलं शान्तस्वभावश्च ताम् विश्वस्य श्रेष्ठतमानां बल्लेबाजिकानां मध्ये प्रतिष्ठापितवान्। सा महिला एकदिवसीय क्रिकेटे सप्तसहस्राधिकधावनिर्माणं कृतवती प्रथमैकैव क्रीडिका अभवत् तथा च अद्यापि एतत् लक्ष्यम् प्राप्तवती एकैव महिला क्रीडिका अस्ति।
महिला- एकदिवसीयायाम् अन्ताराष्ट्रियायां क्रिकेटक्रीडायां सर्वाधिकधावनिर्माणस्य अभिलेखः तस्याः एव नाम्नि विद्यते। सा स्वस्य उत्कृष्टक्रीडाजीवने २३२ स्पर्धासु २११ पारिषु ५० दशमलव ६८ औसतेन कुलं ७८०५ धावान् निर्मितवती। तासु ७ शतकानि ६४ अर्धशतकानि च अन्तर्भवन्ति। तस्याः अनन्तरं वेस्टइण्डीजदेशस्य स्टेफनी टेलर १७७ स्पर्धासु ६१३४ धावैः द्वितीयस्थाने वर्तते। तृतीयस्थाने इङ्ग्लण्डदेशस्य शार्लट एडवर्ड्स अस्ति यस्याः १९१ स्पर्धासु ५९९२ धावाः सन्ति।
महत्त्वपूर्ण घटनाचक्रम्
१६७३ – नीदरलैण्डदेशस्य डेनमार्कदेशस्य च मध्ये रक्षासन्धौ हस्ताक्षराणि अभवन्।
१६९० – विलियम ऑफ ऑरेञ्ज इत्यस्य नेतृत्वे प्रोटेस्टेण्टसम्प्रदायस्य सैनिकैः रोमन कैथोलिकसेना पराजिता।
१८०१ – अल्जीसिरास युद्धे ब्रिटेनदेशेन फ्रान्सदेशः स्पेनदेशश्च पराजितौ।
१८२३ – भारते निर्मितस्य प्रथमस्य वाष्पयन्त्रयुक्तस्य डायना नामकस्य नौकायानस्य कोलकातानगरे जलावतरणम् अभवत्।
१८६२ – अमेरिकादेशस्य संसदा मेडल ऑफ ऑनर इति सर्वोच्चवीरता सम्मानस्य अनुमतिः प्रदत्ता।
१९१२ – क्वीन एलिजाबेथ इति चलचित्रम् अमेरिकादेशे प्रदर्शितं प्रथमं विदेशीयचलच्चित्रम् अभवत्।
१९१८ – टोकायाम उपसागरे जापानी युद्धनौकायां विस्फोटे पञ्चशताधिकजनानां निधनम् अभवत्।
१९३५ – बेल्जियमदेशेन तत्कालीन सोवियतसङ्घस्य मान्यता प्रदत्ता।
१९६० – भागलपुर विश्वविद्यालयस्य राँची विश्वविद्यालयस्य च स्थापना अभवत्।
१९७० – अलकनन्दानद्यां जातया भीषणया बाढया षट्शतजनानां प्राणहानिः अभवत्।
१९९७ – नोबेलपुरस्कारविजेत्री मलाला युसुफजई पाकिस्तानदेशे अजायत।
१९९८ – फ्रान्सदेशस्य ब्राजीलदेशस्य च मध्ये सम्पन्नं फुटबॉल विश्वकप अन्तिमस्पर्धां विश्वे १ दशमलव ७ अब्जजनाः अपश्यन्।
२००१ – अगरतलातः ढाका पर्यन्तं मैत्री बससेवायाः प्रारम्भः अभवत्।
२००५ – विख्यातः क्रिकेट निर्णायकः डेविड शेफर्ड सेवायाः निवृत्तिं घोषितवान्।
२०१५ – सर्बियादेशस्य नोवाक जोकोविच स्विट्जरलैण्डदेशस्य रोजर फेडररं पराजित्य तृतीयं विंबलडन उपाधिं विजितवान्।
जन्मानि
१८९५ – दुर्गाप्रसाद खत्री हिन्दीभाषायाः प्रसिद्धेषु उपन्यासकारेषु अन्यतमः आसीत्।
१९०९ – बिमल राय भारतीयचलच्चित्रनिर्देशकः आसीत्।
१९२० – वाई वी चन्द्रचूड भारतस्य पूर्वः मुख्यन्यायाधीशः आसीत्।
१९५४ – सुलक्षणा पण्डित भारतीयचलच्चित्रजगतः प्रसिद्धा अभिनेत्री आसीत्।
१९८२ – अचन्त शरत कमल भारतीयः प्रसिद्धः टेबल टेनिस क्रीडकः अस्ति।
मृत्युः
१९९९ – राजेन्द्रकुमारः हिन्दीचलच्चित्राणां प्रसिद्धः सदाबहार अभिनेता आसीत्।
२००२ – घनश्यामभाई ओझा गुजरातराज्यस्य पूर्वः मुख्यमन्त्री आसीत्।
२०१२ – दारासिंहः विश्वविख्यातः मल्लः हिन्दीचलच्चित्रेषु प्रसिद्धश्च अभिनेता आसीत्।
२०१३ – प्राणाः हिन्दीचलच्चित्रजगतः दिग्गजः अभिनेता आसीत्।
Hindusthan Samachar / Dheeraj Maithani