स्वतंत्रता दिवस समारोहस्य आयोजनसज्जाम् आधृत्य मुख्यसचिवः अगृह्णादुपवेशनम्
रायपुरम्, 11 जुलाईमासः (हि.स.)।मुख्यसचिवस्य विकासशीलस्य अध्यक्षतायां शुक्रवासरे सायंकाले मन्त्रालये महानदीभवने स्वातन्त्र्यदिवससमारोहस्य आयोजनस्य सिद्धतासम्बद्धा उच्चस्तरीया अधिकारिसभा सम्पन्ना। सभायां स्वातन्त्र्यदिवससमारोहस्य सिद्धतासम्बद्धेषु वि
मुख्य सचिव विकासशील की अध्यक्षता में अधिकारियों की एक उच्चस्तरीय बैठक


रायपुरम्, 11 जुलाईमासः (हि.स.)।मुख्यसचिवस्य विकासशीलस्य अध्यक्षतायां शुक्रवासरे सायंकाले मन्त्रालये महानदीभवने स्वातन्त्र्यदिवससमारोहस्य आयोजनस्य सिद्धतासम्बद्धा उच्चस्तरीया अधिकारिसभा सम्पन्ना। सभायां स्वातन्त्र्यदिवससमारोहस्य सिद्धतासम्बद्धेषु विषयेषु विस्तरेण विचारविमर्शः कृतः।

सभायां सूचितम् यत् राज्यराजधान्यां रायपुरनगरे पुलिसपरेडग्राउण्डे राज्यस्तरीयः समारोहः प्रातः नववादनात् आरभ्य भविष्यति। स्वातन्त्र्यदिवससमारोहस्य विविधव्यवस्थानां कृते अधिकारिणां दायित्वनिर्धारणं कृतम्। स्वातन्त्र्यदिवससमारोहे भव्यपरेडकार्यक्रमस्य आयोजनं भविष्यति। समारोहस्थले परेडकार्यक्रमे भागं गृह्णन्तीनां टुकडीसमूहानां निर्धारणार्थं तथा अभ्यासार्थं छत्तीसगढसशस्त्रबलस्य पुलिसउपमहानिरीक्षकः पुलिसमहानिदेशकस्य मार्गदर्शनेन सर्वाः आवश्यकाः सिद्धताः व्यवस्थाश्च करिष्यति। तथैव यातायातव्यवस्था पार्किंगव्यवस्था ट्रैफिकव्यवस्था सुरक्षाव्यवस्था च रायपुरपुलिसमहानिरीक्षकस्य उत्तरदायित्वे भविष्यन्ति। कार्यक्रमस्थले स्वच्छताव्यवस्था तथा मञ्चपण्डालोपवेशनव्यवस्थानां निर्धारणं रायपुरनगरपालिकानिगमस्य आयुक्तेन क्रियते।

विद्यालयीयबालकैः प्रस्तुतव्यकार्यक्रमाणां निर्धारणं विद्यालयशिक्षाविभागेन संस्कृतिविभागेन च क्रियते। सांस्कृतिककार्यक्रमस्य अभ्यासकाले विद्यालयीयबालकानां सर्वाः व्यवस्थाः रायपुरमण्डलाधिकाऱिणा सम्पादिताः भविष्यन्ति।

एवमेव जनपदतहसीलस्तरेषु आयोज्यमानानां स्वातन्त्र्यदिवसकार्यक्रमाणां निर्धारणसम्बद्धाः निर्देशाः शीघ्रमेव सामान्यप्रशासनविभागेन निर्गमिष्यन्ति। वन्दे मातरम् इत्यस्य सार्धशतवर्षपूर्त्यवसरे सप्तमदिनात् अगस्तमासस्य पञ्चदशदिनपर्यन्तं सर्वेषु शासकीयकार्यक्रमेषु वन्दे मातरम् इत्यस्य गायनं भविष्यति। एतदर्थं संस्कृतिविभागः आवश्यकनिर्देशान् निर्गमिष्यति।

सभायां वनजलवायुपरिवर्तनविभागस्य अपरमुख्यसचिवः मनोजकुमारपिंगुआ, महिलाबालविकासविभागस्य प्रमुखसचिवा शहलानिगार, सामान्यप्रशासनविभागस्य सचिवः रजतकुमारः, कृषिविकासकिसानकल्याणविभागस्य सचिवः सिद्धार्थकोमलपरदेशी, आवासपर्यावरणविभागस्य सचिवः अङ्कितआनन्दः, खेलयुवाकल्याणविभागस्य सचिवः यशवन्तकुमारः, रायपुरमण्डलाधिकारी गौरवकुमारसिंहः, गृहविभागस्य वरिष्ठाधिकारिणः तथा अन्यविभागानाम् अधिकारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani