Enter your Email Address to subscribe to our newsletters

ऑकलैंडम्, 11 जुलाईमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे उक्तवान् यत् भारतेन न्यूजीलैण्डेन च स्वयोः द्विपक्षीयसम्बन्धौ रणनीतिकसाझेदारीस्तरम् आनेतुं ऐतिहासिकः निर्णयः कृतः। उभयोर्देशयोः मध्ये अभिलेखकालावधौ सम्पन्नः मुक्तव्यापारसम्झौतिः (एफटीए) उद्योगक्षेत्राय, कृषकेभ्यः, युवभ्यश्च नूतनान् अवसरान् उद्घाटयिष्यति तथा आगामिषु पञ्चवर्षेषु द्विपक्षीयव्यापारस्य द्विगुणीकरणाय दृढां आधारशिलां स्थापयिष्यति।
न्यूजीलैण्डस्य प्रधानमन्त्री क्रिस्टोफर लक्सन् इत्यनेन आयोजिते राजकीयभोजे सहभागित्वानन्तरं प्रधानमन्त्री मोदी उक्तवान् यत् चत्वारिंशद्वर्षानन्तरं कस्यापि भारतीयप्रधानमन्त्रिणः न्यूजीलैण्डस्य आधिकारिकयात्रा उभयोर्देशयोः सम्बन्धानां नूतनाध्यायस्य शुभारम्भः अस्ति। सः आत्मीयस्वागताय आतिथ्याय च प्रधानमन्त्री लक्सन् प्रति कृतज्ञतां व्यक्तवान् तथा उक्तवान् यत् तस्य स्वागतस्य आत्मीयतया ऑकलैण्डनगरस्य शैत्यं अपि न्यूनम् अनुभूतम्।
प्रधानमन्त्री उक्तवान् यत् लोकतान्त्रिकमूल्येषु समानविश्वासः भारतं न्यूजीलैण्डं च स्वाभाविकसहभागिनौ करोति। विगतेषु कतिपयेषु वर्षेषु उभयोर्देशयोः सम्बन्धेषु नूतना गतिः प्राप्ता, अधुना तु तान् ठोसलक्ष्यैः व्यावहारिकसहकारेण च अग्रे नीयन्ते।
सः उक्तवान् यत् विगतेषु त्रिषु वर्षेषु उभयोर्देशयोः मध्ये व्यापारे पञ्चाशत्प्रतिशताधिकवृद्धिः अभवत्। अस्मिन् वर्षे अभिलेखकालावधौ सम्पन्नः मुक्तव्यापारसहमतिः व्यापारे, निवेशे, कृषिक्षेत्रे, दुग्धोत्पादने, खाद्यप्रसंस्करणे तथा युवानां कृते नूतनान् अवसरान् जनयिष्यति तथा आगामिषु पञ्चवर्षेषु व्यापारस्य द्विगुणीकरणे साहाय्यं करिष्यति।
प्रधानमन्त्री उक्तवान् यत् उभौ देशौ केवलं व्यापारपरिमितौ न स्तः, अपितु प्रौद्योगिक्याः, नवाचारस्य, विश्वासस्य च दृढं सेतुं निर्मातुम् अपि प्रवृत्तौ स्तः। फिनटेकक्षेत्रे भारतस्य यूपीआई तथा न्यूजीलैण्डस्य भुगतानव्यवस्थायाः परस्परसंबन्धस्थापनदिशि कार्यं भविष्यति। कृषिक्षेत्रे, दुग्धोत्पादने, खाद्यप्रसंस्करणे च व्यापकसहकारस्य रूपरेखा निर्मिता अस्ति, येन कृषकाः पशुपालकाश्च लाभान्विताः भविष्यन्ति।
सः अवदत् यत् पारम्परिकचिकित्साक्षेत्रे उभयोर्देशयोः समृद्धपरम्परां दृष्ट्वा स्वास्थ्यसहकारे अस्याः भूमिकां वर्धयितुं सहमतिः अभवत्। एतदतिरिक्तं हिन्दप्रशान्तप्रदेशे सामुद्रिकसहकाराय अपि रूपरेखायां सहमतिः अभवत्, यस्याः अन्तर्गतं नौसैनिकाभ्यासः, लॉजिस्टिकसहकारः, हाइड्रोग्राफीक्षेत्रे च समन्वयः वर्धिष्यते।
प्रधानमन्त्री मोदी उक्तवान् यत् उभयोर्देशयोः मध्ये हस्ताक्षरितः सांस्कृतिकसहकारसम्झौतिः कला, संस्कृतिः, धरोहरः तथा रचनात्मकउद्योगेषु आदानप्रदानाय नूतनां गतिं दास्यति। सः न्यूजीलैण्डस्य विश्वविद्यालयान् भारते स्वीयपरिसरस्थापनाय आमन्त्रितवान्।
सः उक्तवान् यत् अस्मिन् वर्षे भारतं न्यूजीलैण्डं च क्रीडासम्बन्धानां शततमवर्षगांठीं आचरितुम् उद्यतौ स्तः। मेजर ध्यानचन्दस्य नेतृत्वे भारतीयहॉकीदलस्य शतवर्षपूर्वं रचितस्य इतिहासस्य स्मरणार्थम् उभयोर्देशयोः अनेके क्रीडाकार्यक्रमाः आयोजयिष्यन्ते। क्रिकेटक्रीडायाः अतिरिक्तम् अन्येषु क्रीडाक्षेत्रेषु सहयोगवृद्ध्यर्थं संयुक्तक्रीडाकार्ययोजना अपि स्वीकृता अस्ति।
प्रधानमन्त्री उक्तवान् यत् वैश्विकमञ्चे भारतं न्यूजीलैण्डं च विश्वसनीयसहभागिनौ स्तः तथा उभौ मन्येते यत् संयुक्तराष्ट्रसङ्घसहितानां वैश्विकसंस्थानां सुधारः कालस्य आवश्यकता अस्ति। सः उक्तवान् यत् आतंकवादविरुद्धसहयोगस्य अधिकसुदृढीकरणाय संयुक्तकार्यसमूहस्य गठनाय अपि सहमतिः अभवत्। हिन्दप्रशान्तप्रदेशे शान्तेः, स्थैर्यस्य, सुरक्षायाश्च सुनिश्चितीकरणे भारतन्यूजीलैण्डयोः सहयोगः अत्यन्तं महत्त्वपूर्णः भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani