Enter your Email Address to subscribe to our newsletters

ऑकलैण्डनगरम्, ११ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदत् यत् भारतदेश: केवलं विशाला विपणी नास्ति, अपितु वैश्विक-विकासस्य प्रक्षेपणपीठ: अभवत्। सः न्यूजीलैण्डदेशस्य उद्योगजगतः प्रतिनिधीन् भारतस्य विकासयात्रायां सहभागिनः भवितुम् आह्वयत्। तेन उक्तं यत् उभयदेशयोः मध्ये सम्पन्नः मुक्त-व्यापार-सन्धि: व्यापारे, निवेशे, प्रौद्योगिक्यां, सेवाक्षेत्रे तथा प्रतिभा-विनिमये नूतनान् अवसरान् उद्घाटयिष्यति।
ऑकलैण्डनगरे न्यूजीलैण्डदेशस्य प्रधानमन्त्री क्रिस्टोफर-लक्सन इत्यनेन सह उभयदेशयोः प्रमुख-उद्योगपतिभ्यः तथा मुख्य-कार्यकारी-अधिकारिभ्यः सम्बोधयन् प्रधानमन्त्री अवदत् यत् भारतं न्यूजीलैण्डदेशश्च समान-लोकतान्त्रिक-मूल्यैः, विधि-शासनेन, विविधतया तथा सतत-विकासस्य प्रतिबद्धतया परस्परं सम्बद्धौ स्तः। एषः एव आधारः उभयदेशयोः आर्थिक-सहभागितां नूतन-शिखरं प्रति नेष्यति।
सः अवदत् यत् उभयदेशाभ्यां केवलं नव-मासानां अभिलेख-समये मुक्त-व्यापार-सन्धि: सम्पन्नः, यः द्विपक्षीय-सम्बन्धेषु ऐतिहासिकी उपलब्धिः अस्ति। तेन विश्वासः व्यक्तीकृतः यत् उभौ देशौ वर्षं २०३० पर्यन्तं द्विपक्षीय-व्यापारं द्विगुणीकृत्य सप्त-अर्बुद-न्यूजीलैण्ड-डॉलर-परिमाणं प्राप्स्यतः।
प्रधानमन्त्री अवदत् यत् न्यूजीलैण्डदेशेन अग्रिमेषु पञ्चदश-वर्षेषु भारते विंशत्यर्बुद-डॉलर-परिमाणस्य निवेशस्य प्रतिबद्धता प्रदत्ता। एषः केवलं निवेशः न, अपितु भारतस्य विकासयात्रायां सहभागित्वस्य दृढसङ्कल्पः अपि अस्ति।
मोदी अवदत् यत् भारतं विश्वस्य अतिवेगेन वर्धमाना प्रमुखा अर्थव्यवस्था अस्ति। देशस्य शीघ्रं वर्धमानः मध्यमवर्गः, डिजिटल-क्रान्तिः, आधुनिक-आधारभूत-संरचना, दक्षः युवा-कार्यबलं तथा निरन्तराः आर्थिक-सुधाराः निवेशकानां कृते अभूतपूर्वान् अवसरान् प्रददति। तेन उक्तं यत् भारते नीतेः स्थिरता, राजनीतिक-स्थिरता तथा निरन्तर-विकासः भारतं वैश्विक-आर्थिक-वृद्धेः महत्त्वपूर्णं प्रेरक-केन्द्रं कृतवान्।
सः अवदत्— “विश्वस्य कृते अस्माकं सन्देशः स्पष्टः अस्ति—भारतदेश: केवलं विपणी न, अपितु वैश्विक-विकासस्य प्रक्षेपणपीठ: अस्ति।”
प्रधानमन्त्री उद्योगजगतः प्रतिनिधीन् उत्पादन-आधारित-प्रोत्साहन-योजनायाः लाभं ग्रहीतुं प्रोत्साहितवान्। तेन उक्तं यत् खाद्य-प्रसंस्करणात् वस्त्र-उद्योगपर्यन्तं चतुर्दश-क्षेत्रेषु प्रायः विंशत्यर्बुद-डॉलर-परिमाणस्य प्रोत्साहनं प्रदीयते। सः न्यूजीलैण्डदेशस्य निर्माणी: भारतस्य विनिर्माण-क्षेत्रस्य सहभागिन्यः भवितुम् आह्वयत्।
सः अवदत् यत् भारते विमानपत्तनानां, क्षेत्रीय-विमान-सम्पर्कस्य, वायु-मालवाहन-सेवायाः तथा पर्यटनस्य तीव्र-विस्तारः भवति, तथा च देशः विश्वस्य तृतीयः बृहत्तमः गृह-विमानन-विपणी अभवत्। तेन उभयदेशयोः मध्ये मालवाहन-मार्गस्य, विमान-सम्पर्कस्य तथा संयुक्त-पर्यटन-संकुलानां विकासस्य प्रस्तावः कृतः।
मोदी अवदत् यत् भारतं फिनटेक्-क्षेत्रे वैश्विक-अग्रणी अस्ति तथा विश्वस्य प्रायः पञ्चाशत्-प्रतिशतं वास्तविक-समयस्य डिजिटल-प्रदानं भारते एव भवति। तेन उक्तं यत् अन्तरिक्ष-क्षेत्रं निजी-सहभागितायै उद्घाटिते सति देशे चतुःशताधिकाः स्पेस-स्टार्टअप-संस्थाः कार्यरताः सन्ति, तासु एका यूनिकॉर्न-संस्था अपि अस्ति।
सः अवदत् यत् मुक्त-व्यापार-सन्धय: माओरी-समुदायस्य व्यवसायानाम् कृते अपि विशेषं महत्त्वं प्रदत्तम् अस्ति। भारतदेश: न्यूजीलैण्डदेशश्च समान-मूल्यानां आधारेण समावेशि-सतत-व्यापारस्य नूतनं प्रतिमानं विकसितुं शक्नुतः।
प्रधानमन्त्री उभयदेशयोः उद्योगजगतः प्रतिनिधीन् महत्त्वाकाङ्क्षिणं व्यापारिक-मार्गचित्रं निर्मातुम् आह्वयत्। तेन उक्तं यत् उभौ पक्षौ स्व-स्व-शक्तीन् संयोज्य न्यूनातिन्यूनं पञ्च प्रमुख-संयुक्त-परियोजनानां परिचयं कुर्वन्तु तथा तासां समयबद्ध-प्रगतये प्रभावी-समीक्षा-तन्त्रं विकसितं कुर्वन्तु। तेन उक्तं यत् एतेन एव भारत-न्यूजीलैण्ड-आर्थिक-सहभागितायाः वास्तविक-क्षमतायाः पूर्णं लाभं प्राप्तुं शक्यते।
Hindusthan Samachar / Divya Ranjan