Enter your Email Address to subscribe to our newsletters

ऑकलैंडम्, 11 जुलाईमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे न्यूजीलैण्डदेशस्य ऑकलैण्ड-नगरे आयोजिते ‘किया ओरा मोदी’ नामके कार्यक्रमे विशालं भारतीयप्रवासीसमुदायम् सम्बोधयन् प्रवासीभारतीयान् भारतन्यूजीलैण्डदेशयोः मैत्रीविश्वाससहकाराणां सुदृढसेतुरूपेण निरन्तरं कार्यं कर्तुम् आह्वयत्। अस्मिन् अवसरे न्यूजीलैण्डदेशस्य प्रधानमन्त्री क्रिस्टोफर लक्सन् अपि विशेषरूपेण उपस्थितः आसीत्। कार्यक्रमे दशसहस्राधिकाः प्रवासीभारतीयाः उत्साहेन सहभागित्वम् अकुर्वन्।
स्वीयसम्बोधनस्य आरम्भे प्रधानमन्त्री नरेन्द्रमोदी न्यूजीलैण्डदेशस्य प्रधानमन्त्री क्रिस्टोफर लक्सन् महोदयस्य कार्यक्रमे सहभागितायै भारतन्यूजीलैण्डद्विपक्षीयसम्बन्धानां भारतीयमूलनिवासिनां कल्याणस्य च समर्थनाय हार्दिकं कृतज्ञतां प्रकटितवान्। भारतीयसमुदायेन प्रदत्तस्य आत्मीयस्वागतस्य अपि सः प्रशंसामकरोत्।
प्रधानमन्त्री उक्तवान् यत् न्यूजीलैण्डदेशे भारतीयसमुदायः स्वपरिश्रमेण, लगनेन, दृढसङ्कल्पेन च विविधेषु क्षेत्रेषु महत्त्वपूर्णं योगदानं ददाति। तेन उक्तं यत् प्रवासीभारतीयाः स्वीयां सांस्कृतिकपरम्परां, उत्सवान्, परम्परागताचारांश्च संरक्षन्तः न्यूजीलैण्डस्य बहुसांस्कृतिकपरिचयं समृद्धवन्तः। सेवाभावस्य विशेषं प्रशंसां कुर्वन् सः अवदत् यत् भारतीयसमुदायः स्वयंसेवायां, परोपकारे, सामाजिककल्याणकार्येषु च अनुकरणीयां भूमिकां निर्वहति।
प्रधानमन्त्री उक्तवान् यत् अयं कार्यक्रमः केवलं भारतीयसमुदायस्य न, अपितु भारतन्यूजीलैण्डदेशयोः मैत्री, क्रीडासम्बन्धाः, आर्थिकसहभागिता च उत्सवरूपेण आयोजितः अस्ति। तेन उल्लिखितं यत् वर्षः २०२६ उभयदेशयोः क्रीडासहकार्यस्य शतवर्षपूर्तेः प्रतीकः अस्ति तथा च उभौ देशौ अस्मिन् क्षेत्रे सहकारं नूतनशिखरं नेतुं प्रतिबद्धौ स्तः।
सः न्यूजीलैण्डस्य माओरीसंस्कृतेः समावेशीस्थायिविकासभावनायाः प्रशंसां कृत्वा अवदत् यत् भारतम् अपि स्वविकासयात्रायां परम्परायाः आधुनिकविकासस्य च समन्वयं प्राथमिकतया स्वीकरोति।
प्रधानमन्त्री प्रवासीभारतीयान् भारतन्यूजीलैण्डदेशयोः रणनीतिकसहभागितां अधिकं सुदृढां कर्तुं सक्रियभूमिकां निर्वोढुम् आह्वयत्। तेन उक्तं यत् भारतीयसमुदायः उभयदेशयोः विश्वासं, सहकारं, जनसम्बन्धांश्च नूतनशक्त्या समृद्धान् कर्तुं शक्नोति तथा च साझासमृद्धेः लक्ष्यसिद्धौ महत्त्वपूर्णं योगदानं दातुं समर्थः अस्ति।
प्रधानमन्त्री अवदत्, “भारतीयाः यस्मिन् देशे निवसन्ति, तस्य देशस्य प्रगतौ पूर्णसमर्पणेन योगदानं ददति। ते स्वदेशस्य विकासस्य अपि सततं संसूचनां धारयन्ति। यथा वयं जन्मभूमिं प्रेम्णा पश्यामः, तथैव कर्मभूमिमपि समर्पणभावेन सेवामहे।”
---------------
Hindusthan Samachar / Dheeraj Maithani