Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ११ जुलाईमासः (हि.स.)। भारतदेशः न्यूजीलैण्डदेशश्च स्व-द्विपक्षीयसम्बन्धान् रणनैतिक-सहभागितायाः स्तरं प्रति उन्नेतुं घोषणां कृतवन्तौ। उभाभ्यां राष्ट्राभ्यां २०३० तमवर्षपर्यन्तं द्विपक्षीयवाणिज्यं ७ अब्ज-न्यूजीलैण्ड-डॉलर-परिमाणं (प्रायः ३५ सहस्र-कोटिरूप्यकाणि) प्रापयितुं लक्ष्यं निर्धारितम्।
प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे ऑकलैण्ड-नगरे आयोजितायां शिखर-वार्तायां स्वसमकक्षेण क्रिस्टोफर-लक्सन-महोदयेन सह ‘२०३० पर्यन्तं मार्गचित्रम्’ अनुमोदितवान्। विदेश-मन्त्रालयस्य अनुसारेण एषा योजना अग्रिमेषु चतुर्षु वर्षेषु द्विपक्षीयसहयोगाय नूतनां दिशं प्रदास्यति तथा सहभागितां दृढीकर्तुं सामूहिककार्ययोजनायाः आधारः भविष्यति।
वार्तानन्तरम् उभयोः राष्ट्रयोः प्रधानमन्त्रिणौ विविधानां सन्धि-ज्ञापनानाम् आदानप्रदानस्य साक्षिणौ अभवताम्। ततः परं विदेशमन्त्रालयेन घोषणानां तथा सन्धीनां विवरणं प्रकाशितम्।
मन्त्रालयेन उक्तं यत् उभयोः राष्ट्रयोः मध्ये सामुद्रिकसुरक्षासहयोगस्य सुदृढीकरणार्थं सामुद्रिकसुरक्षासंवादः आरभ्यते। न्यूजीलैण्डदेशः इण्डो-प्रशान्त-महासागर-उपक्रमस्य सामुद्रिकसुरक्षायाः स्तम्भे सम्मिलिष्यति। सः वैश्विकजैव-इन्धन-सङ्घे अपि सदस्यत्वं स्वीकरिष्यति। कृषिसहयोगस्य अन्तर्गतं कीवीफल-कार्ययोजना प्रारभ्यते तथा नागालैण्ड-उत्तराखण्डयोः कीवीफलोत्पादनस्य उत्कृष्टताकेन्द्रद्वयं स्थाप्यते।
एतदतिरिक्तं गोवा-स्थितस्य राष्ट्रीयध्रुवीय-सामुद्रिक-अनुसन्धानकेन्द्रस्य तथा कैन्टरबरी-विश्वविद्यालयस्य मध्ये अण्टार्कटिक-अनुसन्धानविषये सहयोगः स्वीकृतः। एवं निफ्टेम-कुण्डली तथा मैसी-विश्वविद्यालययोः मध्ये खाद्य-प्रौद्योगिकी, अनुसन्धानम्, छात्र-विनिमयः तथा शैक्षणिक-सहयोगविषयकः सन्धिरपि सम्पन्नः।
अद्य सम्पन्नायां वार्तायाम् उभयोः राष्ट्रयोः मध्ये अष्टादश सन्धयः तथा व्यवस्थाः स्वीकृताः। तेषु रक्षा-सामुद्रिकसुरक्षा-क्षेत्रसम्बद्धाः चत्वारः प्रमुखाः सन्धयः अन्तर्भवन्ति। तेषु सामुद्रिकसहयोगः, जलमापनविद्या, नौकायाः मानचित्राङ्कनम्, भारतीय-नौसेनायाः न्यूजीलैण्ड-रक्षाबलस्य च मध्ये पारस्परिक-रसदसहायता तथा आतङ्कवाद-प्रतिरोधाय संयुक्तकार्य-समूहस्य स्थापना च समाविष्टा अस्ति।
आपदाप्रबन्धनक्षेत्रे एकः सन्धिः सम्पन्नः। पृथक्-पृथक् सन्धयः पशुपालन-क्षेत्रे, दुग्धोत्पादनक्षेत्रे, पर्यटने तथा सांस्कृतिक-सहयोगे अपि अभवन्। क्रीडाक्षेत्रे भारत-न्यूजीलैण्ड-संयुक्तकार्य-योजना स्वीकृता।
अतिरिक्ततया गुजरातराज्यस्य लोथल-स्थे राष्ट्रीयसामुद्रिक-धरोहर-परिसरस्य विकासार्थं न्यूजीलैण्ड-समुद्रसङ्ग्रहालयेन सह व्यवस्था कृता। तथा कला-धरोहर-सांस्कृतिकप्रयत्नानां च आदानप्रदानेन सांस्कृतिकसहयोगस्य संवर्धनार्थमपि अन्या व्यवस्था स्वीकृता।
Hindusthan Samachar / Divya Ranjan