दृढसुरक्षायाम् अमरनाथ यात्रायै 9,182 श्रद्धालूनां 10गणः प्रस्थितः
-अधुनापर्यन्तं द्विलक्षात् अधिक श्रद्धालवः अकुर्वन्बाबा बर्फानीदर्शनम् जम्मूः, 11 जुलाईमासः (हि.स.)। श्री अमरनाथयात्रायाः अन्तर्गतं शनिवासरे द्विसहस्रचतुःशतपञ्चत्रिंशत् महिलाभिः सहिताः कुलम् नवसहस्रैकाशीत्यधिकद्विशत श्रद्धालवः दशमः यात्रिदलः जम्म
दृढसुरक्षायाम् अमरनाथ यात्रायै 9,182 श्रद्धालूनां 10गणः प्रस्थितः


-अधुनापर्यन्तं द्विलक्षात् अधिक श्रद्धालवः अकुर्वन्बाबा बर्फानीदर्शनम्

जम्मूः, 11 जुलाईमासः (हि.स.)। श्री अमरनाथयात्रायाः अन्तर्गतं शनिवासरे द्विसहस्रचतुःशतपञ्चत्रिंशत् महिलाभिः सहिताः कुलम् नवसहस्रैकाशीत्यधिकद्विशत श्रद्धालवः दशमः यात्रिदलः जम्मूनगरे स्थितात् भगवतीनगरयात्रिनिवासाधारशिविरात् पवित्रामरनाथगुफामन्दिरस्य दर्शनार्थं प्रस्थितः। श्रद्धालवः सुदृढसुरक्षाव्यवस्थायाः मध्ये पृथक् पृथक् वाहनसमूहेषु दक्षिणकाश्मीरस्य अनन्तनागजनपदे स्थितस्य पहलगामाधारशिविरस्य तथा गान्दरबलजनपदे स्थितस्य बालटालाधारशिविरस्य कृते प्रेषिताः।

अधिकारिणां अनुसारम् प्रस्थितेषु श्रद्धालुषु षट्पञ्चाशदधिकद्विशत साधवः, षट्चत्वारिंशत् साध्व्यः तथा एकत्रिंशत् बालकाः अपि सन्ति। श्रद्धालूनां सुरक्षार्थं जम्मूनगरात् आरभ्य उभययात्रामार्गपर्यन्तं बहुस्तरीया सुरक्षाव्यवस्था कृता अस्ति। केन्द्रीयार्धसैनिकबलैः, जम्मूकाश्मीरपुलिसेन तथा अन्याभिः सुरक्षासंस्थाभिः निरीक्षणे वाहनसमूहः निर्धारितसमये प्रस्थितः।

अधिकारिणां अनुसारम् द्विशतषट् वाहनेषु स्थितेन वाहनसमूहेन पञ्चसहस्राष्टशतसप्तसप्ततिः श्रद्धालवः पारम्परिकपहलगाममार्गाय प्रेषिताः। अयं मार्गः अनन्तनागजनपदे स्थितात् नुनवानाधारशिविरात् गत्वा पवित्रगुफां प्राप्नोति तथा अयं तुलनया दीर्घः किन्तु प्राकृतिकसौन्दर्येण परिपूर्णः मन्यते। अपरतः सप्तविंशत्यधिकशतवाहनेषु आरूढाः त्रिसहस्रत्रिशतपञ्च श्रद्धालवः गान्दरबलजनपदस्य बालटालमार्गं स्वीकृतवन्तः, यः दूरीदृष्ट्या लघुतरः सन् अल्पसमये गुफां प्राप्नोतुं विकल्पं प्रददाति।

प्रशासनेन यात्रामार्गेषु श्रद्धालूनां सुविधार्थं चिकित्सासेवाः, पेयजलम्, विद्युत्सुविधा, सञ्चारव्यवस्था, भोजनम्, आवासः तथा आपदाप्रबन्धनस्य व्यापकव्यवस्था कृता अस्ति। मौसमस्य तथा सुरक्षास्थितेः विषये निरन्तरं निरीक्षणं क्रियते, येन यात्रा सुचारुरूपेण प्रवर्तते।

उल्लेखनीयम् अस्ति यत् समुद्रतलात् प्रायः त्रिसहस्राष्टशताशीतिमीतरुच्चतायां स्थितायाः पवित्रामरनाथगुफायाः सप्तपञ्चाशद्दिवसीया वार्षिकी यात्रा जुलैमासस्य तृतीयदिनाङ्कात् पहलगामबालटालयोः उभयमार्गाभ्यां प्रारब्धा आसीत्। एषा यात्रा रक्षाबन्धनस्य पावनपर्वणि अगस्तमासस्य अष्टाविंशतितमदिनाङ्के सम्पन्ना भविष्यति।

धार्मिकश्रद्धया उत्साहेन च सह अस्मिन् वर्षे यात्रां प्रति श्रद्धालूनां विशेषः उत्साहः दृश्यते। अधुना यावत् देशविदेशेभ्यः आगताः द्विलक्षाधिकाः श्रद्धालवः बाबा बर्फानी इत्यस्य दर्शनं कृत्वा पुण्यलाभम् अर्जितवन्तः। प्रशासनस्य अपेक्षा अस्ति यत् आगामिषु दिवसेषु श्रद्धालूनां सङ्ख्या अधिका भविष्यति। तदर्थं सर्वाः आवश्यकव्यवस्थाः निरन्तरं सुदृढीक्रियन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani