रनर्स डे इत्याख्ये दिवसे जयपुर रनर्स क्लबसंस्थायाः मासिकधावनं : 12 वीक चैलेंजदलस्य फिनिशर्सजनानां संजातः सम्मानः
जयपुरम्, 11 जुलाईमासः(हि.स.)। रनर्स डे इत्यस्य अवसरस्य उपलक्ष्ये जयपुर रनर्स क्लबसंथया शनिवासरे प्रातःकाले यूएफसी जिम जगतपुरा इत्यस्य सहयोगेन मासिक धावनकार्यक्रमस्य आयोजनम् अभवत्। अस्मिन् बहुसंख्यकाः धावकाः स्वास्थ्याभिलाषिणश्च सहभागित्वा स्वस्थज
रनर्स डे पर जयपुर रनर्स क्लब की मासिक दौड़: 12 वीक चैलेंज के फिनिशर्स का हुआ सम्मान


जयपुरम्, 11 जुलाईमासः(हि.स.)।

रनर्स डे इत्यस्य अवसरस्य उपलक्ष्ये जयपुर रनर्स क्लबसंथया शनिवासरे प्रातःकाले यूएफसी जिम जगतपुरा इत्यस्य सहयोगेन मासिक धावनकार्यक्रमस्य आयोजनम् अभवत्। अस्मिन् बहुसंख्यकाः धावकाः स्वास्थ्याभिलाषिणश्च सहभागित्वा स्वस्थजीवनशैल्याः स्वीकरणस्य सन्देशम् अददुः। कार्यक्रमस्य समये क्लबस्य पक्षतः आयोजिते द्वादश सप्ताह आह्वाहने सफलतया सम्पन्नतां प्राप्तवन्तः सहभागिनः फिनिशर पदकेन सम्मानिताः।

जयपुर रनर्स क्लबस्य सहसंस्थापकः मुकेश मिश्रः अवदत् यत् द्वादश सप्ताह आव्हानस्य उद्देश्यं केवलम् अधिकदूरधावनं नासीत् अपितु सहभागिषु अनुशासनस्य निरन्तरतायाः स्वस्थजीवनशैल्याः च अभ्यासनिर्माणम् आसीत्। तेन उक्तं यत् प्रत्येकः फिनिशर दृढसंकल्पस्य नियमितप्रयत्नस्य च सामर्थ्यस्य प्रमाणम् अस्ति यत् ताभ्यां किमपि लक्ष्यं साधयितुं शक्यते।

सहसंस्थापकः रवि गोयनका अवदत् यत् जयपुर रनर्स क्लबः बहूनि वर्षाणि यावत् नगरे धावनसंस्कृतेः नूतनां परिचितिं प्रददाति। तेन उक्तं यत् एतत् हर्षस्य विषयः अस्ति यत् अद्य सहस्रशः जनाः अस्मिन् अभियाने सम्बद्धाः सन्तः स्वास्थ्यसंरक्षणं स्वदैनिकजीवनस्य अविभाज्यमङ्गं कुर्वन्ति।

क्लबस्य निवर्तमानाध्यक्षः प्रवीण जैन तिजारिया अवदत् यत् क्लबस्य उद्देश्यं केवलं धावनकार्यक्रमस्य आयोजनं नास्ति अपितु स्वस्थस्य सक्रियस्य प्रेरणादायकस्य च समुदायस्य निर्माणम् अस्ति। तेन सूचितं यत् आगामिषु कालेषु क्लबस्य पक्षतः अधिकप्रभावशालिनः स्वास्थ्यसंवर्धनाभियानाः सामाजिकक्रियाकलापाश्च आयोजयिष्यन्ते।

मासिक धावनकार्यक्रमस्य सञ्चालनं ऋषभ दूगरः सचिन भाटिया, राहुल बंसलः च मासिक धावनसमन्वयकत्वेन अकुर्वन्। तथा निपुण वाधवा द्वादश सप्ताह आव्हानस्य समन्वयकत्वेन सम्पूर्णस्य अभियानस्य सफलं नेतृत्वम् अकरोत्।

-------------

Hindusthan Samachar / Dheeraj Maithani