Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ११ जुलईमासः (हि.स.)। मध्यप्रदेशस्य श्रद्धालुभ्यः भारतीय-रेलवे-खानपान-पर्यटन-निगमेन ‘भारत-गौरव-पर्यटक-रेलयानम्’ इत्यस्य माध्यमेन ज्योतिर्लिङ्गानां सह पश्चिम-भारतस्य प्रमुख-तीर्थस्थानानां दर्शनस्य सुवर्णावसरः प्रदत्तः अस्ति। एतत् रेलयानम् अद्य शनिवासरे रीवानगरात् प्रस्थास्यति।
पश्चिम-मध्य-रेलवेन प्रदत्त-सूचनानुसारम् एतत् रेलयानं सतना, मैहर, कटनी, जबलपुर, नरसिंहपुर, इटारसी, रानी-कमलापति-स्थानकम्, भोपाल, शुजालपुर तथा उज्जयिनी इत्यादिषु अनेक-रेलस्थानकेषु विरमिष्यति। अनेन मण्डलस्य यात्रिणां स्वसमीपस्थ-स्थानकात् एव यात्राम् आरब्धुं सुविधा भविष्यति।
अस्यां आध्यात्मिक-यात्रायां श्रद्धालवः द्वारकायां स्थितस्य द्वारकाधीश-मन्दिरस्य, सोमनाथ-मन्दिरस्य, नागेश्वर-ज्योतिर्लिङ्गस्य तथा ओङ्कारेश्वर-ज्योतिर्लिङ्गस्य दर्शनं करिष्यन्ति। सम्पूर्णा यात्रा प्रायः दश-रात्रयः एकादश-दिनानि च भविष्यति।
आईआरसीटीसी-संस्थया निर्मिते अस्मिन् पर्यटन-संकुले यात्रिकेभ्यः रेलयात्रा, निवास-व्यवस्था, भोजन-व्यवस्था, स्थानीय-परिवहनम्, दर्शनीय-स्थल-भ्रमणम्, यात्रा-बीमा, रेलयाने सुरक्षा-व्यवस्था तथा पर्यटन-मार्गदर्शकस्य सेवा इत्यादयः सुविधाः एकस्मिन्नेव संकुले प्रदास्यन्ते। अधिकाधिक-जनानां धार्मिक-यात्रायाः लाभप्राप्त्यर्थं विविध-श्रेणीषु यात्राशुल्कम् अपि निर्धारितम् अस्ति।
Hindusthan Samachar / Divya Ranjan