Enter your Email Address to subscribe to our newsletters

– प्रदेशस्य पञ्चसहस्रं युवानः सहभागिनः भविष्यन्ति, क्रान्ति-ज्ञानयोः सङ्गमस्य साक्षी भविष्यति इन्दौरनगरम्
भोपालनगरम्, ११ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य शनिवासरे इन्दौरनगरस्य ब्रिलियण्ट-कन्वेन्शन-सेण्टर इत्यत्र आयोजितस्य ‘माय यूथ–माय प्राइड कॉन्क्लेव–२०२६’ इत्यस्य शुभारम्भं करिष्यति। अस्मिन् कॉन्क्लेव्-कार्यक्रमे शिक्षा, क्रीडा, उद्यमिता, कृषि, स्वास्थ्यं, सूचना-प्रौद्योगिकी, कौशल-विकासः, संस्कृति, पर्यावरणं तथा सामाजिक-विकासः इत्यादिषु दश प्रमुख-क्षेत्रेषु सम्बद्धाः प्रायः पञ्चसहस्रं युवानः सहभागिनः भविष्यन्ति।
जनसम्पर्क-अधिकारिण्या: बबीता-मिश्रायाः सूचनानुसारम् अस्य महाकार्यक्रमस्य उद्देश्यं युवा-शक्तेः प्रदेशस्य विकासस्य मुख्यधारया संयोजनम्, तेषां विचाराणां नीति-निर्माणे समावेशः तथा विविध-क्षेत्रेषु युवानां सक्रिय-सहभागितायाः सुनिश्चितीकरणम् अस्ति। अस्य कॉन्क्लेव-इत्यस्य विशेषाकर्षणं क्रान्तेः ज्ञानस्य च सङ्गमस्य प्रतीके द्वे प्रेरणाप्रदे यात्रे भविष्यतः।
सा अवदत् यत् अमर-बलिदानीन: चन्द्रशेखर-आजादस्य जन्मस्थलात् चन्द्रशेखर-आजाद-नगरात् आरब्धा ‘आजाद युवा बाइक शोभायात्रा’, तथा ओङ्कारेश्वरात्, यत् आदि-शङ्कराचार्यस्य दीक्षा-भूमिः अस्ति, आरब्धा ‘शङ्कर-सङ्कल्प द्विचक्रिका-यात्रा’ ब्रिलियण्ट-कन्वेन्शन-सेण्टर इत्यत्र समागत्य एकत्र स्वगन्तव्यं प्राप्स्यतः। मुख्यमन्त्री डॉ. यादवः उभयोः यात्रयोः सहभागिनां स्वागतं सम्मानं च करिष्यति।
जनसम्पर्क-अधिकारिण्याः अनुसारं कॉन्क्लेव-कार्यक्रमे युवानः विविधेषु विषयगत-समूहेषु विभज्य कार्यशालाः आयोजयिष्यन्ते। एतासु कार्यशालासु युवानः स्वस्व-क्षेत्रसम्बद्धान् विचारान्, नवाचारान् तथा भावि-कार्ययोजनाः विषये विचार-विमर्शं कृत्वा क्रियान्वयनयोग्यान् सङ्कल्पान् निर्मास्यन्ति।
कार्यशालासु शिक्षा-कौशल-विकासः, क्रीडा-स्वास्थ्यं, एमएसएमई-स्टार्टअप्, कृषि-उद्यानिकी-पर्यावरणम् तथा जन-अभियानं, संस्कृति-पर्यटनम् इत्यादिषु विषयेषु व्यापकः विचार-विमर्शः भविष्यति। प्रत्येकं समूहेन निर्मितानां सङ्कल्पानां प्रस्तुतीकरणं मुख्य-मञ्चात् भविष्यति।
कॉन्क्लेव्-कार्यक्रमे प्राप्तानां सर्वेषां विचाराणां सङ्कल्पानां च समेकनं कृत्वा ‘मध्यप्रदेश-युवा-सङ्कल्पः–२०२६’ इति दस्तावेजः निर्मास्यते। उपस्थिताः युवानः सामूहिकरूपेण प्रदेशस्य विकासाय, नवाचाराय, सामाजिक-उत्तरदायित्वाय तथा राष्ट्रनिर्माणाय सङ्कल्पं गृह्णीयुः। एतत् सङ्कल्प-तथ्यं मुख्यमन्त्रिणे डॉ. यादवाय समर्पयिष्यते, अनन्तरं आवश्यक-कार्यवाह्यर्थं सम्बद्ध-विभागेभ्यः प्रेषयिष्यते।
कॉन्क्लेव-कार्यक्रमे इन्दौरनगरस्य पारम्परिक-भोजन-संस्कृतेः आधारेण फूड्-स्ट्रीट्-व्यवस्था स्थानीय-युवा-उद्यमिभिः स्वसहायता-समूहैश्च सञ्चालिता भविष्यति। अपरञ्च स्थानीय-युवा-वाद्य-दलानां लोक-फ्यूजन-कलाकाराणां च सांस्कृतिक-प्रस्तुतयः अस्य आयोजनस्य प्रमुखम् आकर्षणं भविष्यन्ति।
कॉन्क्लेव-कार्यक्रमे मुख्यमन्त्री डॉ. मोहनयादवः प्रदेशस्य यूनां प्रोत्साहनार्थं चतस्रः नूतनाः राज्यस्तरीय-युवा-पुरस्कार-श्रेण्यः अपि घोषयिष्यति। तासु मुख्यमन्त्री युवाशिखरसम्मानं, मुख्यमन्त्री युवा नवाचार पुरस्कारः, मुख्यमन्त्री युवा समाज-सेवा पुरस्कारः तथा मुख्यमन्त्री युवा कला-क्रीडा गौरव पुरस्कारः समाविष्टाः सन्ति। एतेषां पुरस्काराणां माध्यमेन विविध-क्षेत्रेषु उत्कृष्टं कार्यं कुर्वन्तः युवानः सम्मानिताः प्रोत्साहिताश्च भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan