Enter your Email Address to subscribe to our newsletters

शभोपालनगरम्, ११ जुलाईमासः (हि.स.)। मध्यप्रदेशे अद्य शनिवासरे विश्व-जनसङ्ख्या-दिवसस्य अवसरे जनजागरूकता-रथेन शोभायात्रया च सह विश्व-जनसङ्ख्या-सप्ताहस्य शुभारम्भः भविष्यति। शासनस्य निर्देशानुसारं १८ जुलाईपर्यन्तं विविधाः जनजागरूकता-कार्यक्रमाः आयोजयिष्यन्ते।
सीहोर-जनपदस्य मुख्य-चिकित्सा-स्वास्थ्य-अधिकारी डॉ. सुधीर-डेहरिया अवदत् यत् अस्य अभियानस्य उद्देश्यं जनसङ्ख्या-स्थिरीकरणस्य, परिवार-नियोजनस्य तथा मातृ-शिशु-स्वास्थ्यस्य विषये जनान् जागरूकान् कर्तुम् अस्ति। अस्मिन् वर्षे अभियानस्य विषयः—“मातुः शिशोश्च स्वास्थ्य-रक्षणाय, अनिच्छित-गर्भधारणस्य निवारणाय च, गर्भधारणयोः मध्ये समुचितः कालः सम्यक् अन्तरं च आवश्यकम्।” इति निर्धारितः अस्ति।
अभियानस्य अवधौ विवाहानन्तरं समुचित-समये सन्तान-प्राप्तिः, बालकयोः जन्मनोः मध्ये समुचितम् अन्तरम्, प्रसवानन्तरं परिवार-नियोजन-सेवानां उपयोगः, पुरुष-सहभागिता तथा परिवार-नियोजनस्य स्थायी-अस्थायी-साधनानां विषये व्यापकाः जनजागरूकता-गतिविधयः सञ्चालयिष्यन्ते।
Hindusthan Samachar / Divya Ranjan