Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 11 जुलाईमासः (हि.स.)। परमवीरचक्रेण सम्मानितस्य सेकेण्ड् लेफ्टिनेन्ट् राम राघोबा राणे इत्यस्य पुण्यतिथौ शनिवासरे देशव्यापिरूपेण तस्मै श्रद्धापूर्वकं स्मरणाञ्जलिः समर्पिता। लोकसभाध्यक्षः ओम् बिरला, केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिन् गडकरी, केन्द्रीयकृषिकिसानकल्याणमन्त्री शिवराजसिंह चौहानः तथा अन्ये बहवः नेतारः तस्य अद्वितीयं शौर्यं, वीरतां राष्ट्राय समर्पणभावं च प्रणम्य भावपूर्णां श्रद्धाञ्जलिम् अर्पितवन्तः।
लोकसभाध्यक्षः ओम् बिरला सामाजिकमाध्यममञ्चे एक्स इति माध्यमे स्वसन्देशे उक्तवान् यत् परमवीरचक्रविजेता सेकेण्ड् लेफ्टिनेन्ट् राम राघोबा राणे १९४७–४८ तमे भारतपाकिस्तानयुद्धे अदम्यसाहसस्य असाधारणनेतृत्वस्य च परिचयं प्रदर्शितवान्। शत्रोः भीषणगोलाबारस्य नानाविधानाम् अवरोधानां च मध्येऽपि सः निरन्तरं स्वसहचराणां कृते मार्गं विशोधितवान्, येन भारतीयसेनायाः अग्रगमनं सुनिश्चितम् अभवत्। बिरला अवदत् यत् विषमपरिस्थितिष्वपि राणे इत्यस्य कर्तव्यनिष्ठा, अटूटसमर्पणभावः वीरता च सैन्याभियानस्य सफलतायाः मूलाधारः अभवत्। तस्य शौर्यगाथा भारतीयसशस्त्रबलानाम् इतिहासे स्वर्णिमः प्रेरणाप्रदश्च अध्यायः अस्ति।
केन्द्रीयमन्त्री नितिन् गडकरी अपि सेकेण्ड् लेफ्टिनेन्ट् राम राघोबा राणे इत्यस्मै श्रद्धाञ्जलिम् अर्पयन् अवदत् यत् राष्ट्रं तस्य परमबलिदानस्य, अदम्यसाहसस्य अतुलनीयदेशभक्तेः च प्रति सदा ऋणी भविष्यति। राणे इत्यस्य जीवनम् प्रत्येकस्य भारतीयस्य कृते प्रेरणायाः अक्षयः स्रोतः अस्ति इति तेन उक्तम्।
केन्द्रीयकृषिकिसानकल्याणमन्त्री शिवराजसिंह चौहानः स्वसन्देशे अवदत् यत् १९४७–४८ तमे भारतपाकिस्तानयुद्धे स्वकीयेन अद्वितीयेन शौर्येण पराक्रमेण च शत्रुसेनां पराजित्य परमवीरचक्रेण सम्मानितस्य सेकेण्ड् लेफ्टिनेन्ट् राम राघोबा राणे इत्यस्य गौरवगाथा आगामिन्यः सन्ततीः सदैव राष्ट्रसेवायै, साहसाय, कर्तव्यनिष्ठायै च प्रेरयिष्यति। तेन उक्तं यत् एतादृशानां वीरसपूतानां बलिदानेन पराक्रमेण च एव देशः सुरक्षितः गौरवान्वितश्च अस्ति।
उल्लेखनीयम् अस्ति यत् सेकेण्ड् लेफ्टिनेन्ट् राम राघोबा राणे भारतीयसेनायाः इञ्जिनियर् कोर् इति विभागस्य अधिकारी आसीत्। १९४७–४८ तमे भारतपाकिस्तानयुद्धकाले सः शत्रोः गोलाबारस्य मध्ये बारूदीसुरङ्गान् मार्गावरोधान् च निराकृत्य भारतीयसेनायाः टङ्कयानानां सैनिकानां च अग्रगमनार्थं मार्गं प्रशस्तवान्। तस्य असाधारणसाहसस्य कर्तव्यपरायणतायाश्च सम्मानरूपेण देशस्य सर्वोच्चेन सैन्यवीरतापुरस्कारेण ‘परमवीरचक्रम्’ इति अलङ्कारेण सः सम्मानितः। अद्यापि तस्य जीवनं वीरता च भारतीयसेनायाः देशवासिनां च कृते प्रेरणायाः अमिटः स्रोतः वर्तते।----------------
Hindusthan Samachar / Dheeraj Maithani