नेपाली क्रिकेटक्रीडायै वर्धयितुं बीसीसीआई अकरोत् हरितध्वजं, भारत ए दलस्य भविष्यति नेपालभ्रमणम्
काठमांडूः, 11 जुलाईमासः (हि.स.)। नेपाली क्रिकेटक्रीडायाः प्रोत्साहनाय भारतस्य भारतीय क्रिकेट नियन्त्रण बोर्डेन (बीसीसीआई) स्वीयां ए दलं नेपालदेशं प्रेषयितुं नेपालस्य राष्ट्रियदलस्य सह च स्पर्धां कर्तुं अनुमतिः प्रदत्ता अस्ति। अधुना एव नेपालस्य
नेपाल और भारत के क्रिकेट पदाधिकारियों की बैठक


काठमांडूः, 11 जुलाईमासः (हि.स.)।

नेपाली क्रिकेटक्रीडायाः प्रोत्साहनाय भारतस्य भारतीय क्रिकेट नियन्त्रण बोर्डेन (बीसीसीआई) स्वीयां ए दलं नेपालदेशं प्रेषयितुं नेपालस्य राष्ट्रियदलस्य सह च स्पर्धां कर्तुं अनुमतिः प्रदत्ता अस्ति।

अधुना एव नेपालस्य विदेशमन्त्रिणः शिशिर खनालस्य भारतस्य आधिकारिकयात्रायाः समये नेपाली क्रिकेटस्य प्रोत्साहनाय भारतपक्षतः सर्वथा साहाय्यं प्रदास्यते इति उक्तम् आसीत्। अस्याः वार्तायाः अनन्तरमेव नेपालस्य भारतस्य च ए दलयोः मध्ये क्रिकेटस्पर्धा निश्चिता अभवत्।

नेपाल क्रिकेट सङ्घस्य आयोजनान्तर्गतं कीर्तिपुरस्थिते टीयू अन्ताराष्ट्रिय क्रिकेट क्रीडाङ्गणे नेपालस्य भारतस्य च ए दलयोः मध्ये त्रयः टी २० स्पर्धाः भविष्यन्ति। नेपालपक्षतः अस्याः ऐतिहासिकस्पर्धाश्रृङ्खलायाः आधिकारिकसूचना प्रदत्ता अस्ति। तस्याः अनुसारेण एषा स्पर्धाश्रृङ्खला २०२६ तमस्य वर्षस्य दिसम्बरमासे आयोजिता भविष्यति। निर्धारितकार्यक्रमानुसारं प्रथमस्पर्धा ९ दिसम्बरदिने द्वितीयस्पर्धा ११ दिसम्बरदिने तृतीयान्तिमस्पर्धा च १३ दिसम्बरदिने २०२६ तमे वर्षे भविष्यति।

अस्याः स्पर्धाश्रृङ्खलायाः आयोजननिर्णयः स्कॉटलैण्डदेशे आयोजिते अन्ताराष्ट्रिय क्रिकेट परिषदः आईसीसी सम्मेलनस्य समये कृतः। अस्मिन् अवसरे नेपाल क्रिकेट सङ्घस्य अध्यक्षः चतुर बहादुर चन्द सचिवः पारस खड्का तथा भारतीय क्रिकेट नियन्त्रण बोर्डस्य बीसीसीआई सचिवः देवजीत सैकिया इत्येषां मध्ये विशेषोपवेशनम् अभवत्। अस्मिन्नेव उपवेशने नेपालस्य भारतस्य च ए दलयोः मध्ये टी २० स्पर्धाश्रृङ्खलायाः आयोजनविषये अन्तिमसम्मतिः अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani