भारत-न्यूजीलैण्डदेशयोः सम्बन्धौ रणनैतिकसहभागितायाः स्तरं प्रति उन्नीतौ
नवदिल्ली, ११ जुलाईमासः (हि.स.)। न्यूजीलैण्डदेशस्य यात्रायां स्थितः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे स्वसमकक्षेण न्यूजीलैण्डदेशस्य प्रधान-मन्त्रिणा क्रिस्टोफर-लक्सन-महोदयेन सह प्रतिनिधिमण्डल-स्तरीयां वार्तां कृतवान्। अस्याः वार्तायाः समये
न्यूजीलैंड के प्रधानमंत्री के साथ प्रतिनिधिमंडल वार्ता करते प्रधानमंत्री मोदी


नवदिल्ली, ११ जुलाईमासः (हि.स.)। न्यूजीलैण्डदेशस्य यात्रायां स्थितः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे स्वसमकक्षेण न्यूजीलैण्डदेशस्य प्रधान-मन्त्रिणा क्रिस्टोफर-लक्सन-महोदयेन सह प्रतिनिधिमण्डल-स्तरीयां वार्तां कृतवान्। अस्याः वार्तायाः समये उभाभ्यां देशाभ्यां परस्परसम्बन्धौ रणनैतिक-सहभागितायाः स्तरं प्रति उन्नेतुं निर्णयः कृतः।

विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जायसवालः वार्तानन्तरं सामाजिक-माध्यम-मञ्चे एक्स इत्यत्र उक्तवान् यत् प्रधानमन्त्री मोदी तथा लक्सन-महोदययोः मध्ये सार्थकी वार्ता अभवत्। उभौ नेतारौ व्यापार-वाणिज्ययोः, रक्षा-सुरक्षयोः, शिक्षायाः, क्रीडायाः, संस्कृतेः तथा अन्येषु प्रमुखेषु क्षेत्रेषु सहयोगस्य विस्तारविषये चर्चां कृतवन्तौ।

सः अवदत् यत् अस्यां सभायां द्विपक्षीयसम्बन्धानां रणनीतिक-सहभागितायाः स्तरं प्रति उन्नयनस्य निर्णयः कृतः। उभौ नेतारौ भारत-न्यूजीलैण्ड-मुक्तव्यापार-सन्धेः तथा प्रादेशिक-वैश्विकविकासानाम् अपि विषये विचारविनिमयं कृतवन्तौ। वार्तानन्तरं रक्षा, आपदाप्रबन्धनम्, पर्यटनम्, क्रीडा, पशुपालनम् इत्यादिषु क्षेत्रेषु अनेकानि सन्धि-ज्ञापनानि, सहयोगसम्बद्धव्यवस्थाश्च परस्परम् आदानप्रदानरूपेण सम्पन्नाः।

प्रतिनिधिमण्डल-स्तरीयवार्तायां स्वप्रारम्भिकवक्तव्ये प्रधानमन्त्री मोदी उक्तवान् यत् उभौ देशौ अधुना स्वसम्बन्धौ रणनैतिकसहभागितायाः सूत्रे बद्धुं गच्छतः। एषा महत्त्वपूर्णा उपलब्धिः उभयोः राष्ट्रयोः अधिकेन उत्साहेन विश्वासेन च अग्रे गन्तुं प्रेरणां दास्यति तथा विविधेषु क्षेत्रेषु सहयोगाय नवीनां गतिं प्रदास्यति।

भारत-न्यूजीलैण्ड-मुक्तव्यापार-सन्धेः उल्लेखं कुर्वन् प्रधानमन्त्री अवदत् यत् अस्याः सन्धेः प्रारब्धान्तरं अल्पकाले एव तस्याः कार्यान्वयनदिशि येन वेगेन कार्यम् अभवत्, तत् सत्यतायामेव असाधारणम् अस्ति, सम्भवतः विश्वे प्रथमवारम् एव एतादृशं दृश्यते।

तेन उक्तं यत् लोकतान्त्रिकमूल्येषु उभयोः देशयोः दृढा आस्था तौ स्वाभाविक-सहभागिनौ करोति। अस्याः समानदृष्टेः आधारेण उभौ देशौ वैश्विकसमस्यानां संयुक्ततया सम्मुखिनं कर्तुं तथा नियमाधारितां अन्ताराष्ट्रिय-व्यवस्थां सुदृढां कर्तुं प्रतिबद्धौ स्तः।

प्रधानमन्त्री अवदत् यत् समुद्रप्रधानराष्ट्रद्वयरूपेण भारतस्य न्यूजीलैण्डदेशस्य च घनिष्ठः सहयोगः हिन्द-प्रशान्तप्रदेशाय नूतनां शक्तिं प्रदास्यति तथा प्रादेशिकशान्तेः, स्थैर्यस्य, सुरक्षायाश्च समानलक्ष्याणां संवर्धने महत्त्वपूर्णां भूमिकां निर्वहिष्यति।प्रधानमन्त्री मोदी न्यूजीलैण्डदेशस्य प्रधानमन्त्रिणः क्रिस्टोफर-लक्सन-महोदयस्य आत्मीयस्वागताय तथा विमानस्थानके स्वयम् उपस्थाय तस्य अभिनन्दनाय विशेषं कृतज्ञतां प्रकटितवान्। तेन उक्तं यत् न्यूजीलैण्डदेशीयजनैः भारतं प्रति प्रदर्शितः स्नेहः अत्यन्तं हृदयस्पर्शी अस्ति तथा सः उभयोः राष्ट्रयोः प्रगाढमित्रतायाः प्रतीकः अस्ति।

Hindusthan Samachar / Divya Ranjan