Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 11 जुलाईमासः (हि.स)।देशस्य सूक्ष्मखाद्यप्रसंस्करणक्षेत्रे आत्मनिर्भरतायाः दिशि अभूतपूर्वा सिद्धिः प्राप्ता अस्ति। केन्द्रीयखाद्यप्रसंस्करणोद्योगमन्त्री चिरागपासवानः नवीनदिल्लीनगरे आयोजिते विशेषकार्यक्रमे घोषणां कृत्वा अवदत् यत् प्रधानमन्त्रीसूक्ष्मखाद्यप्रसंस्करणउद्यमऔपचारिकीकरण योजना पीएमएफएमई इत्यस्याः अन्तर्गतं द्विलक्षाधिकसूक्ष्मोद्यमेभ्यः ऋणस्वीकृतिः प्रदत्ता अस्ति।
खाद्यप्रसंस्करणोद्योगमन्त्रालयेन शनिवासरे प्रकाशिते निवेदने उक्तं यत् केन्द्रीयखाद्यप्रसंस्करणोद्योगमन्त्री चिरागपासवानः नवीनदिल्लीनगरे विशेषकार्यक्रमस्य अध्यक्षताम् अकरोत्। अस्मिन् कार्यक्रमे प्रधानमन्त्रीसूक्ष्मखाद्यप्रसंस्करणउद्यमऔपचारिकीकरण योजना पीएमएफएमई इत्यस्याः अन्तर्गतं प्राप्तायाः ऐतिहासिकसिद्धेः द्विलक्षाधिकसूक्ष्मखाद्यप्रसंस्करणोद्यमेभ्यः ऋणस्वीकृतेः उपलक्ष्ये उत्सवः आयोजितः।
मन्त्रालयेन उक्तं यत् द्विलक्षऋणस्वीकृतीनां सीमां अतिक्रम्य अस्याः योजनायाः माध्यमेन विंशतिसहस्रत्रिशतकोटिरूप्यकाधिकपरियोजनानिवेशः प्रोत्साहितः। लाभार्थिषु प्रायः नवतिप्रतिशतं प्रथमपीढ्याः उद्यमिनः सन्ति तथा च चतुश्चत्वारिंशत्प्रतिशतं महिलाउद्यमिन्यः सन्ति। अपरञ्च पञ्चसप्ततिसहस्राधिकाः पीएमएफएमई समर्थिताः उद्यमाः उद्यमाधार, उद्यमअसिस्ट, एफएसएसएआई तथा जीएसटी इत्यादिपञ्जीकरणमाध्यमैः औपचारिकार्थव्यवस्थायां प्रविष्टाः सन्ति। अस्याः योजनायाः माध्यमेन प्रायः एकादशलक्षप्रत्यक्षाप्रत्यक्षरोजगारावकाशाः सृजिताः सन्ति।
चिरागपासवानः अस्मिन् अवसरे स्वसम्बोधने अवदत् यत् द्विलक्षलाभार्थिनां सिद्धिः एतत् प्रदर्शयति यत् एषा परिकल्पना सम्पूर्णदेशे मापनीयपरिणामेषु परिणता अस्ति। सः अवदत् यत् सर्वेषु लाभार्थिषु प्रायः चतुश्चत्वारिंशत्प्रतिशतं महिलाउद्यमिनीनां सहभागिता महिला नेतृत्वयुक्तविकासस्य वास्तविकभावना विकसितभारतस्य आधारशिला च अस्ति।
केन्द्रीयमन्त्री बिहार, महाराष्ट्र, उत्तरप्रदेश, तमिलनाडु तथा मध्यप्रदेशसहितानां अग्रणीराज्यानां कार्यप्रदर्शनस्य प्रशंसाम् अकरोत्। सः अवदत् यत् एषा सिद्धिः केवलं उत्सवस्य अवसरः नास्ति, अपितु दृढाधारः अस्ति यस्मिन् वयं भारतस्य खाद्यप्रसंस्करणविकासगाथायाः अग्रिमचरणस्य निर्माणं करिष्यामः। सः राज्यसर्वकारेभ्यः, जिलाप्रशासनेभ्यः तथा भूमिस्तरीयाधिकारिभ्यः राष्ट्रियनीतेः उद्यमविकासार्थं जनान्दोलने परिवर्तनाय धन्यवादम् अददात्।
पासवानः योजनायाः अन्तर्गतं प्रदीयमानायाः प्रारम्भिकपूञ्जीसहायतायाः अपि उल्लेखम् अकरोत्। अस्याः माध्यमेन चतुःलक्षाष्टादशसहस्राधिकस्वयसहायतासमूहसदस्येभ्यः सहायता प्रदत्ता अस्ति। सः सप्तविंशतिराज्येषु केन्द्रशासितप्रदेशेषु च मन्त्रालयेन अनुमोदितानां अशीतिसाझा इन्क्यूबेशनकेन्द्राणां जालस्य अपि उल्लेखम् अकरोत्, येषु द्वात्रिंशत्केन्द्राणि सञ्चालितानि सन्ति।
अस्याः योजनायाः अन्तर्गतं एकलक्षषट्सप्ततिसहस्राधिकलाभार्थिभ्यः प्रशिक्षणं प्रदत्तम् अस्ति, येषु सप्तसप्ततिप्रतिशतं महिलाः सन्ति। अस्मिन् अवसरे मन्त्री झारखण्डस्य राञ्चीनगरनिवासिनम् इन्दरजीतसिंहम् द्विलक्षतमलाभार्थिरूपेण सम्मानितवान् तथा तस्मै स्वीकृतिपत्रं प्रमाणपत्रं च प्रदत्तवान्।
खाद्यप्रसंस्करणोद्योगमन्त्रालयेन उक्तं यत् अस्मिन् कार्यक्रमे मन्त्रालयस्य वरिष्ठाधिकारिणः, राज्यसर्वकाराणां प्रतिनिधयः, सहयोगिमन्त्रालयानाम् प्रतिनिधयः, बैंकसंस्थानानाम् प्रतिनिधयः, विकाससहभागिनः, उद्यमिनः, स्वयसहायतासमूहानां सदस्याः तथा कृषकोत्पादकसङ्गठनानां प्रतिनिधयः सहभागिनः अभवन्।
---------------
Hindusthan Samachar / Dheeraj Maithani