Enter your Email Address to subscribe to our newsletters

पौडी-गढवालः, ११ जुलाईमासः (हि.स.)। सेवा-सुशासन-समर्पण इति विषयस्य अन्तर्गतं विकासखण्डस्य खिर्सू-सभागारे जनसेवा-शिविरस्य आयोजनम् अभवत्। अस्मिन् अवसरे क्षेत्रस्य द्वादश बालिकाः ‘बेटी बचाओ, बेटी पढ़ाओ’ इति अभियानस्य टी-शर्ट प्रदाय सम्मानिताः।
अद्य आयोजिते शिविरे ग्रामवासिभिः खिर्सू-क्षेत्रे पेयजल-वितरण-व्यवस्था, स्वास्थ्य-सुविधाः, समाज-कल्याण-पेन्शन-योजना, श्रीनगर-खिर्सू-मोटरमार्गे कूटकस्य सञ्चयः इत्यादयः समस्याः प्रस्तुताः। जनपदाधिकारिणी स्वाति एस.भदौरिया पेयजल-नलिकायाः सर्वेक्षणं कृत्वा नूतन-योजनायाः विस्तृत-प्रस्तावस्य निर्माणाय निर्देशम् अददात्। सा खण्ड-विकास-अधिकारिणं खण्ड-कार्यालय-परिसरे पेयजल-संयोजनं शीघ्रं सुनिश्चितं कर्तुमपि आदिष्टवती।
स्वास्थ्य-सुविधानां विषये जन-पदाधिकारिणी अल्ट्रासाउण्ड-परीक्षणादीनां आवश्यक-सेवानां उपलब्धतां सुनिश्चितां कर्तुं, आवश्यकता चेत् रोगिणः ‘खुशियों की सवारी’ नाम्ना सेवया समीपस्थ-चिकित्सालयं प्रेषयितुं च निर्देशान् अददात्।
शिविरे राज्यमन्त्री भगवतप्रसाद-मकवाना अवदत् यत् मुख्यमन्त्रिणः पुष्करसिंहधामी इत्यस्य नेतृत्वे राज्यसर्वकारः सेवा-सुशासन-समर्पणभावेन ग्रामं ग्रामं गत्वा जनानां समस्याः समाधातुं कार्यं करोति। जनसेवा-शिविराणां मुख्योद्देश्यं जनान् शासकीय-कार्यालयानां पुनः पुनः परिभ्रमणात् विमोच्य विविध-विभागानां सेवाः एकस्मिन्नेव स्थले उपलब्धाः कर्तुमिति सः उक्तवान्।
अस्मिन् शिविरे एकस्य शिशोः अन्नप्राशन-संस्कारः सम्पन्नः, द्वयोः गर्भवत्योः महिलयोः गोदभराई-संस्कारश्च आयोजितः। तथा च शिक्षाक्षेत्रे उत्कृष्टं प्रदर्शनं कृतवतीभ्यः द्वादश बालिकाभ्यः ‘बेटी बचाओ, बेटी पढ़ाओ’ इति अभियानस्य टी-शर्ट् प्रदाय सम्मानं कृतम्।
अतिथिभिः महिलानां सुविधार्थं स्थापितायाः सेनेटरी-पैड्-वितरण-यन्त्रस्य तथा स्वसहायता-समूहानां उत्पादानां निरीक्षणमपि कृतम्। अस्मिन्नवसरे पीडी-डीआरडीए विवेककुमार-उपाध्यायः, एसडीएम नूपुरवर्मा, जिला-विकास-अधिकारी रमेशचन्द्रः, मुख्य-पशु-चिकित्साधिकारी डा. विशालशर्मा, सीईओ अत्रेय-सयाना इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan