Enter your Email Address to subscribe to our newsletters


धमतरी, 11 जुलाईमासः (हि.स.)।
वर्षानुवर्षं प्रचलितां परम्परामनुसृत्य भगवान् जगन्नाथः भगिनी सुभद्रा भ्राता बलभद्रश्च अस्वस्थताम् आपन्नाः इति परम्परानुसारम् औषधरूपेण प्रयुज्यमानस्य कषायस्य वितरणं श्रीजगदीशमन्दिरे भक्तानां श्रद्धालूनां च कृते शनिवासरे प्रातः सप्तवादनत्रिंशन्मिनिटसमये प्रारब्धम्। दीर्घपङ्क्त्याः उपस्थितावपि तस्य प्राप्त्यर्थं श्रद्धालूनां महान् समागमः अभवत्।
अस्य पूर्वं श्रद्धाभक्तिभ्यां पूजार्चनां कृत्वा जयघोषैः शान्तिपाठेन च सह मन्दिरमागतानां श्रद्धालूनां स्वपात्रेषु सम्यग्रूपेण प्राचीनौषधवनस्पतिभिः अन्याभिः औषधद्रव्यैश्च ब्रह्ममुहूर्ते विशेषविधिना सिद्धीकृतः कषायः वितरितः। अयं कषायः वस्तुतः वर्षाकाले जायमानासु ऋतुसम्बद्धासु तथा अन्यासु व्याधिषु शरीरस्य स्वास्थ्यलाभाय हितकरः भवति।
श्रीजगदीशमन्दिरन्यासस्य अध्यक्षः किरणभाईगान्धी अवदत् यत् प्रतिदिनं प्रातः सप्तवादनत्रिंशन्मिनिटसमयात् आरभ्य मन्दिरप्राङ्गणे कषायौषधस्य वितरणं क्रियते। एतदर्थम् आगन्तुकैः स्वगृहात् स्वपात्रम् अवश्यं आनेतव्यम्। न्यासस्य सदस्यैः उक्तं यत् प्रसादीकषायस्य वितरणं पॉलिथीनपुटेषु प्लास्टिकनिर्मितपात्रेषु वा न क्रियते यतः एतत् स्वच्छपर्यावरणस्य दृष्ट्या समुचितं नास्ति। कषायवितरणावसरे पुजारी बालकृष्णशर्मा, अध्यक्षः किरणकुमारगान्धी, उपाध्यक्षः सत्यनारायणराठी, सचिवः प्रकाशगान्धी, सहसचिवः मोहनअग्रवालः, कोषाध्यक्षः लखमशीभानुशाली, न्यासी श्यामसुन्दरअग्रवालः, डॉ हीरामहावरः, श्यामअग्रवालः, प्रीतेशगान्धी, राजेन्द्रशर्मा पूर्वनगरनिगमसभापतिः, कुलेशसोनी पार्षदः तथा अन्ये बहवः उपस्थिताः आसन्।
ततः अनन्तरं पञ्चदशजुलैमासदिनाङ्के प्रातः दशवादनात् आरभ्य महाप्रभोः प्राणप्रतिष्ठापूजनं हवनकार्यक्रमश्च भविष्यति। श्रीजगदीशमन्दिरस्य न्यासिनः आयोजनस्य सिद्धतायां संलग्नाः सन्ति। षोडशजुलैमासदिनाङ्के प्रातः पञ्चवादने मङ्गलारतिः दर्शनं च भविष्यति तथा मध्यान्हे एकवादने रथयात्रा निर्गमिष्यति। रथयात्रायाः प्रत्यागमनं सप्तविंशतिजुलैमासदिनाङ्के श्रीराष्ट्रीयगौशालातः सिहावाचतुष्पथं मार्गेण श्रीजगन्नाथमन्दिरं प्रति भविष्यति।
रथयात्रासिद्धतां प्रति श्रीजगदीशमन्दिरन्यासस्य हर्षदमेहता, गोपालशर्मा, लक्ष्मीचन्दबाहेती, अजयअग्रवालः, विपिनपटेलः, मदनमोहनखण्डेलवालः, बिहारीलालअग्रवालः, दयारामअग्रवालः, रमेशलाटः, भरतसोनी, बालकृष्णशर्मा महाराजः, अनिलमित्तलः, आमन्त्रितसदस्यः विनोदअग्रवालः, रविकान्तअग्रवालः, प्रीतेशगान्धी, संजयअग्रवालः, दिलीपसोनी, महेन्द्रपण्डितः, कीर्तिशाहः, गोवर्धनसोनी, महेन्द्रराजपुरिया, हरिकटारिया, अजीतखण्डेलवालः, अनुरागमहावरः तथा वरिष्ठाः समाजसेविनः सेवाकार्येषु संलग्नाः सन्ति। तथैव श्रीराष्ट्रियगौशालायां भगवानः जगन्नाथस्य आगमनस्य सिद्धताः अपि महता उत्साहेन धूमधाम्ना च प्रवर्तन्ते। श्रीराष्ट्रियगौशालायाः अध्यक्षः अनिलअग्रवालः तथा न्यासस्य सदस्याः व्यवस्थासु निरताः सन्ति।
Hindusthan Samachar / Dheeraj Maithani