Enter your Email Address to subscribe to our newsletters

लखनऊ, 11 जुलाईमासः (हि.स.)।
भारतीयजनतापक्षस्य युवमोर्चायाः नवनियुक्तः प्रदेशाध्यक्षः डॉ रोहितमिश्रः द्वादशजुलै रविवासरे प्रदेशभारतीयजनतापक्षकार्यालयम् आगत्य पदभारं ग्रहीष्यति। युवमोर्चायाः प्रदेशाध्यक्षरूपेण दायित्वग्रहणानन्तरं डॉ रोहितमिश्रः युवभिः सह संवादमपि करिष्यति। अस्मात् पूर्वं लखनऊनगरे स्थितात् १०९० चतुष्पथात् बहुसंख्यकैः युवभिः सह भारतीयजनतापक्षस्य प्रदेशमुख्यालयं प्राप्स्यति।
डॉ रोहितमिश्रः शनिवासरे स्वसामाजिकमाध्यमसन्देशे अलिखत् यत् जनसेवायाः अयं मार्गः पक्षस्य शीर्षनेतृत्वस्य मार्गदर्शनस्य तथा भवतां सर्वेषाम् अखण्डविश्वासस्य प्रतिफलम् अस्ति। एतां नूतनां जिम्मेदारिं अहं केवलं दायित्वरूपेण न पश्यामि, अपितु प्रदेशस्य युवानां स्वरः भवितुं तेषां सशक्तीकरणस्य च एकं अभियानरूपेण पश्यामि।
तेन उक्तं यत् अहं पूर्णनिष्ठया ऊर्जया च एतत् दायित्वं निर्वहितुं दृढसंकल्पितः अस्मि। अस्मिन् प्रवासे भवतां सर्वेषां स्नेहः, आशीर्वादः, सक्रियसहयोगश्च एव मम महान् शक्तिः अस्ति। वयं सर्वे मिलित्वा सकारात्मकपरिवर्तनस्य दिशि पदानि स्थापयेम तथा च समर्थां सशक्तां युवशक्तिं निर्मिमीमहि।
-------------
Hindusthan Samachar / Dheeraj Maithani