Enter your Email Address to subscribe to our newsletters


डॉ. मयङ्कचतुर्वेदी
भोपालनगरम्, ११ जुलाईमास: (हि.स.)। भारतस्य महानि धार्मिकसंस्थानानि केवलं प्रशासनिकनिकायाः न सन्ति, अपितु कोटिशः श्रद्धालूनाम् आस्थायाः सनातनपरम्परायाश्च प्रतिनिधयः सन्ति। अतः एतादृशेषु संस्थानेषु समये समये धर्मशास्त्रपरम्पराणाम् आलोकस्य आधारेण मार्गदर्शनं प्रदातुं देशस्य चतुर्णाम् आम्नायपीठानां शङ्कराचार्याः, प्रमुख-वैष्णवाचार्याः, अन्ये मान्याः प्रतिष्ठिताश्च आचार्याः तथा प्रमुखसन्तः सम्मिलित्वा मार्गदर्शिका धर्मपरिषद् भवेत् इति परमहितकरम्। तेन सह देशस्य समस्त-मन्दिराणां व्यवस्थापनाय ‘सनातन-धर्मसंरक्षणसमितिः’ अर्थात् ‘सनातनबोर्ड’ इत्यपि स्थाप्यताम्। एतानि वचनानि श्रीद्वारकाशारदापीठस्य पीठाधीश्वरः जगद्गुरुः शङ्कराचार्यः स्वामी सदानन्दसरस्वतीमहाराजः हिन्दुस्थान-समाचारसंस्थायै प्रदत्तविशेषसाक्षात्कारे उक्तवान्।
अयोध्याश्रीराममन्दिरस्य दानप्रकरणे देशव्यापिनः प्रश्नाः, शङ्काः, श्रद्धालूनां मनसि उद्भवन्तः नकारात्मकविचाराश्च दृष्ट्वा जगद्गुरुः अवदत्— धर्माचार्याणां कार्यं प्रशासनसञ्चालनं न, किन्तु धर्मस्य, मर्यादायाः, शास्त्रसम्मतदिशायाश्च प्रदानमेव। यदि एषा मार्गदर्शिका परिषद् समये समये स्वीयानि मतानि प्रदद्यात्, तर्हि न केवलं मन्दिरस्य गरिमा परम्परा च सुरक्षिते भविष्यतः, अपितु कोटिशः श्रद्धालूनां विश्वासोऽपि दृढतरः भविष्यति। श्रीराममन्दिरं समग्रहिन्दूसमाजस्य श्रद्धाकेन्द्रम् अस्ति; अतः तस्य सञ्चालने धर्मस्य प्रकाशः निरन्तरं विराजितव्यः।
सनातनबोर्ड-इत्यनेन मन्दिराणां व्यवस्थापनम्
सः अवदत्— “मन्दिराणां सञ्चालनं धर्माचार्यैः, वेदविद्भिः विद्वद्भिः तथा श्रद्धालुभिः योग्यैः निष्कलङ्कैश्च जनैः मार्गदर्शितं भवेत्। यदि शासनं सहयोगं ददाति तर्हि तत् स्वागतार्हम्, किन्तु धार्मिकनियन्त्रणं तस्य कार्यं नास्ति। वयं इच्छामः यत् सम्पूर्णदेशस्य मन्दिरव्यवस्थापनाय ‘सनातनधर्म-संरक्षणसमितिः’ अर्थात् ‘सनातनबोर्ड’ इति स्थाप्येत। अस्मिन् बोर्डमध्ये देशस्य चतुर्णाम् आम्नायपीठानां शङ्कराचार्याः, पञ्च प्रमुखवैष्णवाचार्याः, अन्ये च मान्याः प्रतिष्ठितधर्माचार्याः समावेश्येरन्, समस्तमन्दिराणां धार्मिकव्यवस्थापनं तेषां मार्गदर्शने संरक्षणे च भवेत्।”
जगद्गुरोः मते— “एवं करणम् आवश्यकम्, यतः शासनस्य समीपे न शास्त्रज्ञानम् अस्ति, न च आध्यात्मिकानुभूतिः। धर्मनिरपेक्षराज्यव्यवस्थायां धार्मिकसञ्चालनस्य नैतिकाधिकारोऽपि तस्य नास्ति। अयं संघ: मन्दिराणां धार्मिकमर्यादा, परम्परा, देवद्रव्यस्य पारदर्शिता, धर्मप्रचारः, वेदरक्षा, गोसंरक्षणम्, संस्कृतप्रचारः तथा लोककल्याणकार्याणां मार्गदर्शनं करोतु। तेन मन्दिराणि राजनीतेः न, अपितु धर्मस्य केन्द्राणि भविष्यन्ति, समाजस्य विश्वासोऽपि दृढतरः भविष्यति।”
मन्दिरेषु प्राप्तस्य देवद्रव्यस्य शास्त्रोक्तः सदुपयोगः भवेत्
सः अवदत्— “वयम् एतदपि इच्छामः यत् मन्दिरेषु प्राप्तस्य देवद्रव्यस्य उपयोगः मुख्यतया तस्मिन्नेव जनपदे क्षेत्रे च धार्मिक-शैक्षिक-सामाजिकोन्नत्यर्थं क्रियेत। यथा पाठशालाः, गुरुकुलानि, वेदविद्यालयाः, गोशालाः, चिकित्सालयाः, अन्नक्षेत्राणि, धर्मशालाः, निर्धन-असहाय-पीडितजनसेवा च। एषः एव सनातनधर्मस्य परम्परा, एषः एव देवद्रव्यस्य शास्त्रोक्तः सदुपयोगः।”
मन्दिराणां धार्मिकसञ्चालनं शासनस्य हस्ते न भवेत्
जगद्गुरुः पुनरपि स्पष्टतया अवदत्— “मम स्पष्टं मतम् अस्ति यत् मन्दिराणां धार्मिकसञ्चालनं शासनस्य हस्ते न भवेत्। शासनस्य कार्यं प्रशासनं, सुरक्षा, न्यायः, जनकल्याणं च; मन्दिराणि तु आध्यात्मिक-धार्मिक-सांस्कृतिक-चेतनायाः केन्द्राणि सन्ति। शासनस्य समीपे न शास्त्रज्ञानम्, न धार्मिक-परम्पराणाम् अनुभवः, न च आध्यात्मिकदायित्वम् अस्ति। धर्मनिरपेक्ष-राज्यव्यवस्थायां राज्यं कस्यापि धर्मस्य धार्मिककार्येषु सञ्चालकं न भवेत्।”
तेन तात्पर्यम्— शासनस्य समीपे न शास्त्रज्ञानम् अस्ति, न धर्मानुभवसम्पन्नाः अधिकारीणः। धर्मनिरपेक्षशासनस्य कार्यं जनसुविधानां प्रदानम्, न तु आध्यात्मिकानुष्ठानानां सञ्चालनम्। अतः धार्मिकव्यवस्थापने शासनं सम्यक् न्यायं कर्तुं न शक्नोति। मर्यादाहानिं कुर्वन्तः केचन अधिकारिण: मन्दिराणि पर्यटन-केन्द्राणि मन्यन्ते, न तु तपोभूमयः। तेन गर्भगृहस्य पवित्रता परम्परागत-पूजाविधानं च बाध्यते।
देवद्रव्यं भगवतः समर्पितं द्रव्यम्
एकस्य प्रश्नस्य उत्तरे जगद्गुरुः शास्त्रप्रमाणं दत्त्वा अवदत्— “देवद्रव्यं न हर्तव्यं नोपभोग्यं कदाचन।” अर्थात् भगवते समर्पितं द्रव्यं देवद्रव्यं भवति। यदि तस्मिन् वस्तुतः चौर्यं जातम्, तर्हि तत् केवलम् आर्थिकापराधः न, अपितु भगवत: श्रीरामस्य तथा कोटिशः श्रद्धालूनाम् आस्थायाः विश्वासघातः। अस्य निष्पक्षः, शीघ्रः, निर्भीकश्च अन्वेषणं भवेत्, दोषिणः कठोरदण्डं प्राप्नुयुः।
मम केवलमियमेव अपेक्षा यत् अन्वेषणं न कस्यचित् पदेन, प्रभावेण, प्रतिष्ठया, राजनीतिकप्रभावेन वा प्रभावितं भवेत्। सत्यं यावत् नयेत्, तावत् एव अन्वेषणम् अपि गच्छेत्। निर्दोषस्य रक्षा भवेत्, दोषी तु सः कश्चन प्रभावशाली अपि चेत् न्यायस्य पुरतः उत्तरदायी भवेत्। एष एव धर्मः, एष एव न्यायः, एष एव भगवानः श्रीरामस्य मर्यादानुकूलः मार्गः।
सः अवदत्— सनातनधर्मे देवद्रव्यं भगवतः स्वरूपमेव मन्यते। तस्मिन् कस्यचित् व्यक्तेः अधिकारो नास्ति। अतः देवद्रव्यस्य अपहरणं दुरुपयोगो वा केवलं चौर्यं न, अपितु धर्मस्यापि महदपराधः। प्रश्नः अयं यत् अयोध्या धर्मनगरी, संस्कारनगरी, भगवानः श्रीरामस्य जन्मभूमिश्च अस्ति; तादृशे पवित्रस्थले एतादृशं दुष्कर्म कथं सम्भवम्? एतत् तादृशमेव यथा चन्दनवने विषवृक्षस्य वासः।
पुराणेषु उक्तम्—
“देवद्रव्यं ब्राह्मणस्वं च लोभेनोपहिनस्ति यः।स पापात्मा निरये घोरे ब्रह्महत्यासमं व्रजेत्॥”
अर्थात् यः लोभवशात् देवद्रव्यस्य अपहरणं करोति, सः महापापस्य भागी भवति। यदि भगवत: श्रीरामस्य चरणयोः समर्पितेन दानेन सह छलं कृतं तर्हि तत् कोटिशः श्रद्धालूनाम् आस्थायाः अपमानम् अपि अस्ति।
Hindusthan Samachar / Divya Ranjan