Enter your Email Address to subscribe to our newsletters

नवदेहली, ११ जुलाईमासः (हि.स.)। भारत-अमेरिकादेशयोः मध्ये प्रस्तावितस्य व्यापार-सन्धे: तथा कृषिकार्यार्थसम्बद्धानां विविधविषयाणां विरोधे राष्ट्रव्यापि-आन्दोलनस्य सिद्धता तीव्रा जाता। संयुक्त-किसान-मोर्चा (गैर-राजनीतिक:) इत्यनेन संयुक्त-किसान-मोर्चायै पत्रं सम्प्रेष्य परस्पर-मतभेदान् विस्मृत्य न्यूनतम-सामान्य-कार्यक्रमस्य आधारेण संयुक्तम् आन्दोलनं सञ्चालयितुं प्रस्तावः कृतः।
संयुक्त-किसान-मोर्चा (गैर-राजनीतिक:) इत्यस्य संयोजकेन जगजीतसिंह-डल्लेवाल-महोदयेन सह-संयोजकेन कुरुबुरु-शान्ताकुमार-महोदयेन च प्रेषिते पत्रे उक्तं यत् कृषकसम्बद्धविषयेषु व्यापक-एकताया: कालस्य आवश्यकता अस्ति। पत्रे उभाभ्यां सङ्घटनाभ्यां समान-रणनीतिं निर्माय राष्ट्रीयस्तरे संयुक्त-आन्दोलनम् आरब्धुम् आह्वानं कृतम्।
पत्रे आरोपः कृतः यत् विश्व-व्यापार-सङ्घटनस्य, विश्व-धनागारस्य, अन्ताराष्ट्रिय-मुद्रा-निधेः तथा बृहत्-निगम-समूहानां प्रभावेण केन्द्र-राज्य-सर्वकारौ निरन्तरं कृषक-विरोधि-नीतीः प्रवर्तयतः। पत्रे इदमपि उक्तं यत् केन्द्रसर्वकारः अमेरिकादेशेन सह तादृशस्य व्यापार-सन्धे: दिशि अग्रे गच्छति, येन कृषकाणां, कृषिक्षेत्र-श्रमिकाणां तथा लघु-व्यापारिणां हितानि प्रभावितानि भवितुम् अर्हन्ति।
संयुक्त-किसान-मोर्चा (गैर-राजनीतिक:) इत्यनेन पत्रे पञ्जाब-सर्वकारस्य प्रस्तावित-भूमि-सङ्ग्रह-नीतेः (लैण्ड-पूलिंग-नीतेः) अपि विरोधः कृतः। सङ्घटनस्य मतम् अस्ति यत् अस्याः नीतेः पुनः प्रवर्तनस्य प्रयासः कृषकहितस्य विरुद्धः अस्ति। अतः भूमेः, कृषेः तथा व्यापारस्य सम्बन्धिषु सर्वेषु महत्त्वपूर्णविषयेषु कृषकसङ्घटनानि एकस्मिन् मञ्चे समागत्य संघर्षं कुर्वन्तु इति अपेक्षा व्यक्ता।
पत्रानुसारं कृषकसङ्घटनानां मध्ये व्यापकैक्यस्य स्थापनार्थं जूनमासस्य २५ दिनाङ्के तथा जुलाईमासस्य १ दिनाङ्के च चण्डीगढे सभा: आयोजिताः आसन्। एतासु सभासु विभिन्न-सङ्घटनानां प्रतिनिधीनां मध्ये सकारात्मक-चर्चा अभवत् तथा संयुक्त-आन्दोलनस्य विषये सहमतिनिर्माणदिशि प्रगतिर्जाता।
उल्लेखनीयं यत् संयुक्त-किसान-मोर्चया सह डॉ. दर्शन-पालः, राकेश-टिकैतः, हन्नान-मोल्ला तथा बलबीरसिंह-राजेवालः इत्यादयः प्रमुखाः कृषक-नेतारः सम्बद्धाः सन्ति। अपरतः संयुक्त-किसान-मोर्चा (गैर-राजनीतिक:) इत्यस्य नेतृत्वं जगजीतसिंह-डल्लेवालः तथा सरवनसिंह-पंढेरः कुर्वन्ति। अधुना कृषकसङ्घटनानां दृष्टिः अस्मिन् विषये केन्द्रिता अस्ति यत् संयुक्त-आन्दोलनस्य प्रस्तावे संयुक्त-किसान-मोर्चा किं पदक्षेपं स्वीकरोति तथा उभे सङ्घटने भविष्यस्य रणनीतिं कथं अग्रे नयतः।
Hindusthan Samachar / Divya Ranjan