Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 11 जुलाईमासः (हि.स.)।
भारतीयपुरुषपादकन्दुकदलम् नवम्बरमासे २०२६ तमे वर्षे फीफा अन्ताराष्ट्रियविरामकालस्य अवसरे न्यूजीलैण्डदेशस्य प्रवासं करिष्यति। तत्र तत् यजमानदलस्य न्यूजीलैण्डस्य आल व्हाइट्स इति विख्यातस्य दलस्य विरुद्धं द्वौ अन्ताराष्ट्रियमैत्रीसमरौ खेलिष्यति। अयं प्रवासः उभयदेशयोः क्रीडासम्बन्धानां शतवर्षपूर्णतायाः उपलक्ष्ये आयोज्यते।
भारतीयदलम् स्वस्य प्रथमं स्पर्धां द्वादशनवम्बरदिने आकलैण्डनगरस्य गो मीडिया स्टेडियम इति क्रीडाङ्गणे खेलिष्यति। द्वितीयः समरः पञ्चदशनवम्बरदिने क्राइस्टचर्चनगरस्य वन एनजेड स्टेडियम इति क्रीडाङ्गणे भविष्यति।
अस्याः श्रेण्याः घोषणा प्रधानमन्त्रिणः नरेन्द्रमोदिनः न्यूजीलैण्डदेशस्य आधिकारिकयात्राकाले कृता। एते समराः भारतस्य कृते अत्यन्तं महत्त्वपूर्णाः भविष्यन्ति, यतः न्यूजीलैण्डदलम् फीफा विश्वकप २०२६ स्पर्धायै अर्हतां प्राप्तवान् अस्ति तथा च सुदृढप्रतिद्वन्द्वी इति मन्यते।
भारतस्य न्यूजीलैण्डस्य च पुरुषपादकन्दुकदलयोः अन्तिमः समरः २०१८ तमे वर्षे इन्टरकाण्टिनेन्टल कप स्पर्धायाम् अभवत्। तस्मिन् समरे सुनीलछेत्रिणः गोलस्य अनन्तरमपि भारतदलम् द्वे एकम् इति परिणामेन पराजितम् अभवत्।
उभयदेशयोः क्रीडासम्बन्धानां प्रारम्भः १९२६ तमे वर्षे अभवत्, यदा मेजर ध्यानचन्दः भारतीयसेनायाः हाकीदलेन सह न्यूजीलैण्डदेशस्य प्रवासम् अकरोत्। एषा पादकन्दुकश्रेणी तस्यैव ऐतिहासिकसम्बन्धस्य शतवर्षपूर्णतायाः अवसरे आयोज्यते।
अयं प्रवासः भारत न्यूजीलैण्डसंयुक्तक्रीडाकार्ययोजनायाः अपि भागः अस्ति। अस्याः योजनायाः अन्तर्गतं उभौ देशौ प्रशिक्षणे, क्रीडाविज्ञाने, प्रतिभाविकासे तथा उच्चप्रदर्शनकार्यक्रमेषु परस्परसहयोगं अधिकं सुदृढं करिष्यतः।
---------------
Hindusthan Samachar / Dheeraj Maithani