Enter your Email Address to subscribe to our newsletters

मोनाको, 11 जुलाईमासः (हि.स.)। भारतस्य राष्ट्रियकीर्तिमानधारकः सर्वेश कुशारे डायमण्डलीगस्पर्धायां स्वस्य प्रथमप्रतिस्पर्धायामेव उत्कृष्टं प्रदर्शनं कृत्वा शुक्रवासरे पुरुषाणां उच्चलङ्घनस्पर्धायां तृतीयस्थानम् अलभत। मोनाकोनगरे आयोजितायाम् अस्यां प्रतिष्ठितायां स्पर्धायां कुशारे द्विमीटर षड्विंशतिसेन्टिमीटर परिमितां श्रेष्ठलङ्घनं कृत्वा पदकवेदिकायां स्थानम् अवाप्तवान्।
अस्याः स्पर्धायाः स्वर्णपदकं यूक्रेनदेशस्य ओलेह डोरोशचुक द्विमीटर द्वात्रिंशत्सेन्टिमीटर परिमितया लङ्घनेन अलभत, यदा च ग्रेटब्रिटेनदेशस्य किमानी जैक द्विमीटर त्रिंशत्सेन्टिमीटर परिमितेन प्रयासेन रजतपदकं स्वीकृतवान्।
तथापि सर्वेश स्वस्य द्विमीटर एकत्रिंशत्सेन्टिमीटर परिमितस्य राष्ट्रियकीर्तिमानस्य समतां कर्तुं न अशकत्। सः एतत् कीर्तिमानं समीपे एव भुवनेश्वरनगरे आयोजितायां पञ्चषष्टितमायां राष्ट्रियान्तरराज्यीयवरिष्ठक्रीडाचैम्पियनशिपस्पर्धायां स्थापितवान्। तदा तेन तेजस्विन शङ्करस्य द्विमीटर एकोनत्रिंशत्सेन्टिमीटर परिमितः पूर्वराष्ट्रियकीर्तिमानः भङ्गः कृतः।
डायमण्डलीगस्पर्धायाः पूर्वं सर्वेश तथा किमानी जैक इत्येतयोः अस्मिन् क्रीडाकाले श्रेष्ठतमं प्रदर्शनं द्विमीटर एकत्रिंशत्सेन्टिमीटर आसीत्, यत् स्पर्धायां भागं गृहीतवत्सु दशसु क्रीडकेषु संयुक्तरूपेण सर्वोत्तमम् आसीत्।
अस्यां स्पर्धायां टोक्यो ओलम्पिकस्पर्धायाः संयुक्तस्वर्णपदकविजेतारौ इटलीदेशस्य जियानमार्को ताम्बेरी तथा कतारदेशस्य मुताज बरशीम अपेक्षितं प्रदर्शनं कर्तुं न अशक्नुताम्। ताम्बेरी द्विमीटर त्रयोविंशतिसेन्टिमीटर परिमितया लङ्घनेन संयुक्तषष्ठस्थानम् अलभत, यदा च बरशीम द्विमीटर विंशतिसेन्टिमीटर परिमितेन प्रयासेन संयुक्ताष्टमस्थानम् अलभत।
सर्वेश कुशारेस्य एतत् प्रदर्शनं भारतीयक्रीडाक्षेत्रस्य कृते महती उपलब्धिः मन्यते तथा आगामिषु अन्ताराष्ट्रियप्रतिस्पर्धासु तस्य आत्मविश्वासमपि अधिकं दृढं करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani