Enter your Email Address to subscribe to our newsletters

लंदनम् 11 जुलाईमासः (हि.स.)।
विम्बलडन २०२६ स्पर्धायाः उपान्त्यस्पर्धायां शुक्रवासरे विश्वस्य प्रथमक्रमाङ्कितेन इटलीदेशीयेन जैनिक सिनर इत्यनेन ऋजुसमुच्चयेषु पराजितः अपि सर्बियादेशीयः क्रीडकः नोवाक जोकोविच स्वसंन्याससम्बद्धानाम् अटकलानाम् अपलापनम् अकरोत्।
एकोनचत्वारिंशद्वर्षीयः सर्बियादेशीयः वरिष्ठक्रीडकः स्पष्टतया अवदत् यत् सः अद्यापि टेनिसक्रीडां कर्तुम् इच्छति तथा आगामिवर्षे विम्बलडनस्पर्धायां पुनरागमनस्य आशां धारयति।
सप्तवारं विम्बलडनविजेता जोकोविच केन्द्रीयक्रीडाङ्गणात् निर्गच्छन् उपस्थितैः प्रेक्षकैः उत्थाय दीर्घतालध्वनिना सम्मानितः। अनन्तरं यदा तस्मै पृष्टम् यत् सः आगामिवर्षे चत्वारिंशद्वर्षीयः सन् विम्बलडनस्य शतपञ्चाशत्तमसंस्करणे क्रीडिष्यति वा, तदा सः अवदत्, अहं पुनरागन्तुम् इच्छामि, न्यूनातिन्यूनम् एकवारम् अपि। अग्रे किं भवति इति पश्यामः।
अनेन पराजयेन सह जोकोविचस्य पञ्चविंशतितमग्रैण्डस्लामविजयस्य तथा एकोनचत्वारिंशत्तमग्रैण्डस्लामअन्तिमस्पर्धायां प्रवेशस्य स्वप्नं सफलं नाभवत्। तथापि तस्य मतम् अस्ति यत् उपान्त्यस्पर्धापर्यन्तं तस्य यात्रा एतत् सिद्धयति यत् सः अद्यापि विश्वस्य श्रेष्ठतमैः क्रीडकैः सह स्पर्धां कर्तुं समर्थः अस्ति।
सः अवदत्, नूनं अहं निराशः अस्मि। अहं विम्बलडनस्पर्धां जेतुम् इच्छामि, एतदेव कारणम् अस्ति यत् अद्यापि आत्मानं कठिनपरिश्रमाय प्रेरयामि। किन्तु अस्यां स्पर्धायां क्रीडाङ्गणे मम व्यवहारः, सङ्घर्षस्य भावना, समर्पणं च सकारात्मकम् आसीत्। एतानि सर्वाणि गुणाः अद्यापि मयि विद्यमानाः सन्ति।
अधुना जोकोविचस्य लक्ष्यं यूएस ओपन २०२६ स्पर्धा भविष्यति। सः स्वस्य अन्तिमं चतुर्विंशतितमं ग्रैण्डस्लामविजयं वर्षे २०२३ यूएस ओपनस्पर्धायामेव प्राप्तवान्।
स्वभविष्ययोजनासु सः अवदत्, मयि क्रीडनस्य कश्चन दबावः नास्ति, न च कश्चित् मां क्रीडितुं बाधते। अहं केवलं तस्मात् क्रीडामि यतः अहमेव क्रीडितुम् इच्छामि। मम दृढविश्वासः अस्ति यत् अहं अद्यापि विश्वस्य श्रेष्ठदशक्रीडकेषु अथवा श्रेष्ठपञ्चक्रीडकेषु गणनीयः अस्मि। भविष्ये किं भविष्यति इति कालः एव दर्शयिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani