Enter your Email Address to subscribe to our newsletters


शिवगंगा, 11 जुलाईमासः (हि.स.)। तमिळनाडुराज्यस्य शिवगङ्गाजनपदे शोधकैः त्रयोदशशतकीयः (ईस्वीयः) महत्त्वपूर्णः शिलालेखः प्राप्तः। अयं शिलालेखः तिरुप्पत्तूरसमीपे कारैयूरपुदुवलवु-ग्रामस्थितस्य वण्णिक्कण्माय-तडागस्य तीरे प्राप्तः। अस्य शिलालेखस्य अध्ययनात् अस्य प्रदेशस्य धार्मिकसामाजिकऐतिहासिकमहत्त्वविषये बहवः नूतनाः तथ्याः प्रकाशमागताः। शोधकानां मते अस्मिन् शिलालेखे एकस्य वैष्णवाचार्यस्य आध्यात्मिकसेवायाः उल्लेखः विद्यते। सः जनान् वेदमार्गे प्रवर्तयित्वा तेषां आध्यात्मिककल्याणाय कार्यमकरोत्।
अस्य शिलालेखस्य विषये प्रथमां संसूचनां कारैयूरपुदुवलवु-ग्रामस्य छात्रः सुरेशः विशेषज्ञेभ्यः प्रदत्तवान्। तदनन्तरं शिवगङ्गापुरातत्त्वाध्ययनसमूहस्य संस्थापकः का. कालीरासा, सचिवः इरा. नरसिम्हन् तथा कारैकुडी-अलगप्पा-राजकीयकलामहाविद्यालयस्य इतिहासविभागस्य सहप्राध्यापकः वेलायुधराजा स्थलमुपेत्य परीक्षणमकुर्वन्।
शोधकैः उक्तं यत् तडागतटे प्राप्तः अयं शिलालेखः प्रायः द्विपादप्रमाणः अस्ति, तस्मिन् सप्त पङ्क्तयः उत्कीर्णाः सन्ति। शिलालेखस्य अन्तिमभागे पूर्णकुम्भः तस्य उभयतः पारम्परिकौ कुत्थुदीपौ च उत्कीर्णौ स्तः। लिप्याः शिल्पशैल्याश्च आधारेण अस्य कालः त्रयोदशशतकीयः इति निर्धार्यते।
शिलालेखे उत्कीर्णः पाठः “स्वस्तिश्री वण्णक्क नल्लूर मेवि क् कुलम् सियर वेद नेरि काट्टिनान सियर रक्षै” इति अस्ति। अस्य पाठस्य आधारेण ज्ञायते यत् वण्णक्कनल्लूरनाम्नः ग्रामस्य समीपे निवसन् कश्चन वैष्णवाचार्यः जनान् वेदमार्गे प्रेरितवान् तथा तेषां आध्यात्मिकरक्षणाय प्रयत्नमकरोत्।
शोधकैः अपि सूचितं यत् कारैयूरस्थिते अलगिय-मणवाल-पेरुमाल-मन्दिरे प्रथममारवर्मन्-सुन्दरपाण्ड्यस्य तथा सडैयवर्मन्-सुन्दरपाण्ड्यस्य शासनकालसम्बद्धेषु शिलालेखेषु अपि वण्णक्कनल्लूरस्य उल्लेखः विद्यते। तेषु अभिलेखेषु “वण्णक्कनल्लूर दूतन् आण्डपिल्लै” इत्यस्य हस्ताक्षराणि अपि दृश्यन्ते, येन अस्य प्रदेशस्य ऐतिहासिकमहत्त्वस्य पुष्टिर्भवति।
अस्य शिलालेखस्य आधारेण ज्ञायते यत् कारैयूरस्थितस्य अलगिय-मणवाल-पेरुमाल-मन्दिरस्य नम्बिमार-सेवकानां कृते कारैयूर, मणक्कुडी, वण्णक्कनल्लूर, थोट्टूर, उगलूर तथा पनैवयल इत्यादिषु ग्रामेषु ‘तिरुविडैयाट्टम्’ इति नाम्ना करमुक्ता धार्मिकदानभूमिः प्रदत्ता आसीत्। एतेन तस्य कालस्य मन्दिराणां आर्थिकव्यवस्था धार्मिकसंस्थानानां संरक्षणं च स्पष्टतया ज्ञायते।
शोधकानां मते तडागस्य समीपस्थितम् अय्यनारमन्दिरम् अद्यापि वन्निकुन्नि-अय्यनारमन्दिरम् इति प्रसिद्धम् अस्ति, तडागश्च वण्णिक्कण्माय इति नाम्ना विख्यातः अस्ति। एतेषां नाम्नां शिलालेखीयविवरणानां च आधारेण प्राचीनकाले सम्पूर्णः अयं प्रदेशः वण्णक्कनल्लूर इति नाम्ना प्रसिद्धः आसीदिति मन्यते।
अध्ययनकाले अय्यनारस्य प्राचीनप्रतिमा अपि शोधकानाम् आकर्षणस्य केन्द्रम् अभवत्। तैः उक्तं यत् तमिळनाडुराज्ये ग्रामरक्षकदेवतारूपेण पूज्यमानः अय्यनारः सामान्यतया पूर्णा-पुष्पकला-नाम्नीभ्यां देव्याभ्यां सह प्रदर्श्यते। किन्तु अस्मिन् मन्दिरे सः एकाकी उत्कुटिकासनस्थः विराजते, एषा अस्य प्रतिमायाः विशिष्टता वर्तते।
अस्यां प्रतिमायां शिरसि जटाभारः, ललाटे कण्णिमाला, वक्षसि सन्नवीरम्, कर्णयोः मकरकुण्डले, कट्यां उदरबन्धः, दक्षिणहस्ते सेण्डै तथा वामहस्ते दण्डहस्तमुद्रा दृश्यते। समीपे द्वौ गजवाहनौ अपि उत्कीर्णौ स्तः। शिल्पशैल्याः आधारेण शोधकानां मतम् अस्ति यत् एषा प्रतिमा अपि द्वादशशतक्या अथवा त्रयोदशशतक्या भवितुमर्हति।
शोधकानां मतानुसारम् एषा खोजः न केवलं शिवगङ्गाजनपदस्य प्राचीनइतिहासे नूतनं प्रकाशं प्रसारयति, अपि तु मध्यकालीनतमिळसमाजस्य, वैष्णवसम्प्रदायस्य, मन्दिरव्यवस्थायाः, ग्रामसंरचनायाश्च अध्ययनाय महत्त्वपूर्णानि ऐतिहासिकसाक्ष्याणि अपि प्रददाति।--------------
Hindusthan Samachar / Dheeraj Maithani