यूएनराष्ट्रस्य आदिवासी अधिकार मंचे भारतस्य प्रतिनिधित्वं करिष्यति सांसदो राजकुमार रोतः
डूंगरपुरम्, 11 जुलाईमासः (हि.स.)। बांसवाड़ा-डूंगरपुर लोकसभाक्षेत्रस्य सांसदः राजकुमार रोत महोदयः आगामिनि १३ तः १७ जुलै २०२६ पर्यन्तं स्विट्ज़रलैण्डदेशस्य जिनेवानगरे स्थिते संयुक्तराष्ट्रसङ्घस्य मुख्यालये ''पैलेस् डेस नेशन्स्'' इति स्थले आयोज्यम
सांसद राजकुमार रोत


डूंगरपुरम्, 11 जुलाईमासः (हि.स.)।

बांसवाड़ा-डूंगरपुर लोकसभाक्षेत्रस्य सांसदः राजकुमार रोत महोदयः आगामिनि १३ तः १७ जुलै २०२६ पर्यन्तं स्विट्ज़रलैण्डदेशस्य जिनेवानगरे स्थिते संयुक्तराष्ट्रसङ्घस्य मुख्यालये 'पैलेस् डेस नेशन्स्' इति स्थले आयोज्यमाने 'आदिवासिजनानां अधिकारविषये विशेषज्ञमञ्चस्य' एकोनविंशे सत्रे भारतस्य प्रतिनिधित्वं करिष्यति। संयुक्तराष्ट्रसङ्घस्य एतदेव तत् प्रतिष्ठितम् अन्ताराष्ट्रियमञ्चम् अस्ति, येन ९ अगस्तदिनं 'विश्व आदिवासी दिवसः' इति रूपेण वैश्विकमान्यता प्रदत्ता तथा च विश्वस्य सर्वेषां मूलनिवासिनां अधिकारसुदृढीकरणे ऐतिहासिकी भूमिका निर्वाहिता। अधुना तस्मिन्नेव वैश्विकमञ्चे सांसदः रोत भारतीय-आदिवासिसमाजस्य स्वरं सशक्ततया प्रस्तोष्यति।

अस्मिन् गौरवपूर्णे अवसरे सांसदः राजकुमार रोत अवदत् यत् एतदामन्त्रणं केवलं तस्य व्यक्तिगतसम्मानः नास्ति, अपितु देशस्य कोटिशः आदिवासिजनानां विषयान् वैश्विकमञ्चे प्रस्तोतुं महदवसरः अस्ति। तेन स्पष्टतया उक्तं यत् सः सम्मेलनस्य अवधौ जलं वनं भूमिः, भारतीयसंविधानस्य पञ्चमी षष्ठी च अनुसूची, वनाधिकाराधिनियमः, शिक्षा, स्वास्थ्यं, सांस्कृतिकसंरक्षणम् तथा विस्थापनादिभिः सम्बद्धान् गम्भीरान् विषयान् अधिकारसम्बद्धांश्च प्रश्नान् संयुक्तराष्ट्रसङ्घस्य समक्षं दृढतया स्थापयिष्यति।

सांसदः रोत एतां वैश्विकभागीदारितां अधिकां समावेशिनीम् प्रभावशालिनीं च कर्तुं देशस्य सर्वेभ्यः आदिवासिसमाजेभ्यः, सामाजिकसङ्गठनेभ्यः, बुद्धिजीविभ्यः, शोधकर्तृभ्यः तथा जनप्रतिनिधिभ्यः व्यापकसहयोगस्य आह्वानं कृतवान्। तेन आहूतं यत् देशस्य विभिन्नप्रदेशेषु निवसतां आदिवासिजनानां वास्तविकाः समस्याः सुझावाश्च तस्मै प्रेष्यन्ताम्। सांसदेन विश्वासः प्रदत्तः यत् प्राप्तानां सर्वेषां महत्त्वपूर्णपरामर्शानां गम्भीरतया अध्ययनं कृत्वा तानि अस्य अन्ताराष्ट्रियसम्मेलनस्य कार्यसूच्यां समावेशितानि भविष्यन्ति, येन भारतीयमूलनिवासिनां वास्तविकपरिस्थितयः तेषां च अपेक्षाः वैश्विकस्तरे सम्यग्रूपेण प्रस्तूयेरन्।

---------------

Hindusthan Samachar / Dheeraj Maithani