वाराणस्याः कैंट विधानसभायां विधायकोऽकरोत् इंटरलॉकिंगमार्गनिर्माणकार्यस्य शिलान्यासः
वाराणसी, 11 जुलाईमासः (हि. स.)।वाराणस्याः कैण्ट विधानसभाक्षेत्रे शनिवासरस्य प्रातःकाले विधायकः सौरभ श्रीवास्तवः नेवादाक्षेत्रस्य मुसहरबस्त्याम् इण्टरलॉकिङ्ग मार्गनिर्माणकार्यस्य शिलान्यासम् अकरोत्। मुसहरबस्त्यां स्थानीयजनैः द्वाभ्यां मासाभ्यां पूर्
सड़क निर्माण शिलान्यास के अवसर पर विधायक और स्थानीय लोग


वाराणसी, 11 जुलाईमासः (हि. स.)।वाराणस्याः कैण्ट विधानसभाक्षेत्रे शनिवासरस्य प्रातःकाले विधायकः सौरभ श्रीवास्तवः नेवादाक्षेत्रस्य मुसहरबस्त्याम् इण्टरलॉकिङ्ग मार्गनिर्माणकार्यस्य शिलान्यासम् अकरोत्। मुसहरबस्त्यां स्थानीयजनैः द्वाभ्यां मासाभ्यां पूर्वमेव विधायकः सौरभ श्रीवास्तवः मार्गनिर्माणस्य आग्रहः कृतः आसीत्। विधायकेन जनेभ्यः शीघ्रमेव मार्गनिर्माणस्य आश्वासनं दत्तम् आसीत्।

इण्टरलॉकिङ्ग मार्गनिर्माणकार्यस्य शिलान्यासानन्तरं विधायकः सौरभ श्रीवास्तवः अवदत् यत् मुसहरबस्त्यां मार्गस्य अपेक्षां दृष्ट्वा विकासकार्ये विशेषबलं दत्त्वा अद्य शिलान्यासः कृतः अस्ति। अस्य कार्यस्य सम्पन्नतया मुसहरबस्तिनिवासिनाम् आवागमनं अधिकं सुगमं भविष्यति। शिलान्यासपूजनं अत्रत्येन वरिष्ठनागरिकेण बलवन्त पटेलेन कारितम्। शिलापट्टस्य अनावरणं भाजपानेतृभ्यां राकेश मोहन तिवारी तथा दिनेश पटेलेन कृतम्। भाजपानेता प्रेम पटेलः नारिकेलभेदनपूर्वकं परियोजनायाः शुभारम्भम् अकरोत्। अल्पेनैव कालेन अयं मार्गः निर्माय सिद्धः भविष्यति।

---------------