तिवा-समुदायस्य वानचुवा-महोत्सवस्य अवसरे मुख्यमन्त्रिणा शुभकामनाः प्रदत्ताः
गुवाहाटीनगरम्, ११ जुलाईमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सरमा तिवा-समुदायस्य पारम्परिक-वानचुवा-महोत्सवस्य अवसरे राज्यवासिभ्यः, विशेषतः तिवा-समाजस्य जनान् प्रति हार्दिक-शुभकामनाः प्रदत्तवान्। मुख्यमन्त्री उक्तवान् यत् वानचुवा-
The Image Shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटीनगरम्, ११ जुलाईमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सरमा तिवा-समुदायस्य पारम्परिक-वानचुवा-महोत्सवस्य अवसरे राज्यवासिभ्यः, विशेषतः तिवा-समाजस्य जनान् प्रति हार्दिक-शुभकामनाः प्रदत्तवान्।

मुख्यमन्त्री उक्तवान् यत् वानचुवा-महोत्सवः असमप्रदेशस्य विविध-लोकसंस्कृतेः अनुपमं प्रतीकम् अस्ति। अयं महोत्सवः कृषिजीवनस्य, सामाजिकैक्यस्य, सामुदायिक-सौहार्दस्य तथा प्रकृतिं प्रति कृतज्ञतायाः उत्सवः अस्ति। सः अवदत् यत् पिठागुड़ी-खोंदा-परम्परया, सामूहिक-सहभागितया तथा आध्यात्मिक-श्रद्धया सम्बद्धोऽयं महोत्सवः तिवा-समाजस्य विशिष्टां सांस्कृतिक-परिचयं प्रकाशयति।

तेन उक्तं यत् राज्यसर्वकारः असमस्य समस्त-जनजातीय-स्वदेशी-समुदायानां भाषा-संस्कृति-परम्पराणां संरक्षणाय संवर्धनाय च दृढसंकल्पितः अस्ति।

मुख्यमन्त्री अवदत् यत् स्वदेशी-जनजातीय-आस्था-संस्कृति-विभागस्य माध्यमेन राज्यसर्वकारः राज्यस्य समृद्धां सांस्कृतिक-परम्परां संरक्षितुं निरन्तरं कार्यं करोति।

Hindusthan Samachar / Divya Ranjan