गुवाहाटीनगरे विश्वजनसङ्ख्यादिवसः आचरितः
गुवाहाटीनगरम्, ११ जुलाईमासः (हि.स.)। विश्वजनसङ्ख्यादिवसस्य अवसरे शनिवासरे कामरूप-महानगर-जनपदे विविधाः जनजागरूकताकार्यक्रमाः आयोजिताः। कामरूप-महानगर-जनपदस्वास्थ्यसमितेः प्रयत्नेन धीरेनपारा-एफ.आर.यू.केन्द्रे आयोजितस्य कार्यक्रमस्य उद्घाटनम् अतिरिक्तम
गुवाहाटी के धीरेनपारा एफआरयू में आयोजित विश्व जनसंख्या दिवस समारोह की तस्वीर।


गुवाहाटीनगरम्, ११ जुलाईमासः (हि.स.)। विश्वजनसङ्ख्यादिवसस्य अवसरे शनिवासरे कामरूप-महानगर-जनपदे विविधाः जनजागरूकताकार्यक्रमाः आयोजिताः। कामरूप-महानगर-जनपदस्वास्थ्यसमितेः प्रयत्नेन धीरेनपारा-एफ.आर.यू.केन्द्रे आयोजितस्य कार्यक्रमस्य उद्घाटनम् अतिरिक्तमुख्य-चिकित्सा-स्वास्थ्याधिकारी डा. भूपेन्द्रकुमारः भुइयाँ अकरोत्।

अस्मिन् अवसरे डा.भुइयाँ जनपदस्य पात्रदम्पतीन् स्वसुविधानुसारम् आवश्यकतानुसारं च परिवारनियोजनस्य स्थायि-अस्थाय्युपायान् स्वीकर्तुम् आह्वानम् अकरोत्। तेन उक्तं यत् परिवारनियोजनं स्वस्थस्य सन्तुलितस्य च समाजस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहति।

१८ जुलाईमास-पर्यन्तं सञ्चाल्यमानस्य जनसङ्ख्यानियन्त्रण-अभियानस्य अन्तर्गतं जनपदस्वास्थ्यसमितिः परिवार-नियोजनस्य विविधसाधनानां विषये जनान् जागरूकान् कर्तुं व्यापकं प्रचारप्रसारं करिष्यति। आशाकार्यकर्त्र्यः गृहं गत्वा पात्रदम्पतीभ्यः परिवार-नियोजनसम्बद्धान् अस्थाय्युपायान् तथा जागरूकतासामग्रीं वितरिष्यन्ति।

कार्यक्रमे जनपदक्षयरोगाधिकारी डा.मृदुलभारतीनाथः, धीरेनपारा-एफ.आर.यू.-केन्द्रस्य अतिरिक्ताधीक्षकः डा.रक्तिमः तामुली, आई.पी.ए.एस.-फाउण्डेशन-इत्यस्य स्वास्थ्यप्रणाली-विशेषज्ञः डा.तपनः कलिता, राष्ट्रीय-स्वास्थ्य-अभियानस्य जनपद-खण्डस्तरीय-अधिकारिणश्च उपस्थिताः आसन्। अस्मिन् अवसरे परिवार-नियोजनक्षेत्रे उत्कृष्टकार्यं कृतवत्यः तिस्रः आशाकार्यकर्त्र्यः प्रशस्तिपत्रैः सम्मानिताः।

Hindusthan Samachar / Divya Ranjan