Enter your Email Address to subscribe to our newsletters

धौलपुरनगरम्, ११ जुलाईमासः (हि.स.)। महिलानां सुरक्षां, सम्मानं, जागरूकतां, सशक्तीकरणं च प्रोत्साहयितुं सञ्चालितस्य महिलासुरक्षा-संकल्प-अभियानस्य अन्तर्गतं शुक्रवासरे जनपदस्तरीयः जागरूकता-सम्मान-समारोहः आयोजितः। धौलपुर-नगरपरिषदः सभागारे आयोजिते अस्मिन् समारोहे महिलासुरक्षायाः सशक्तीकरणस्य च कृते सहभाग-प्रयत्नेषु विचारविमर्शः कृतः। कार्यक्रमे महिलासुरक्षायां, जनजागरूकतायां, उत्कृष्ट-आरक्षक-कार्ये च उल्लेखनीयं योगदानं दत्तवन्तः महिला-पुरुष-आरक्षककर्मचारिणः प्रशस्तिपत्रैः सम्मानिताः।
कार्यक्रमस्य मुख्यातिथिः जनपद-अधिकारिणी श्रीनिधिः बी.टी. अवदत् यत् महिलासुरक्षा केवलं आरक्षक-विभागस्य प्रशासनस्य वा विषयः नास्ति, अपितु समग्रसमाजस्य सामूहिकम् उत्तरदायित्वम् अस्ति। तया महिलाभ्यः बालिकाभ्यश्च आह्वानं कृतं यत् कस्यापि आपराधिकघटनायाः, साइबर-अपराधस्य, गार्हस्थ्य-हिंसायाः, कार्यस्थले उत्पीडनस्य अथवा लैङ्गिक-अपराधस्य स्थितौ ते निर्भयतया निःसंकोचं च आरक्षकम्, प्रशासनम्, विविधाः साहाय्यसेवाः च त्वरितम् उपयुञ्जीरन्।
जनपद-आरक्षक-अधीक्षकः विकासः सांगवान अवदत् यत् महिलासुरक्षा राजस्थान-आरक्षकविभागस्य सर्वोच्च-प्राथमिकतासु अन्तर्भवति। तेन उक्तं यत् आरक्षकविभागः केवलं विधेः प्रवर्तकसंस्था न, अपितु समाजस्य सहभागिनी संरक्षिका च अस्ति। सः अवदत् यत् धौलपुर-आरक्षकविभागः महिला-सुरक्षासम्बद्धेषु सर्वेषु अभियोगेषु संवेदनशीलतया, गोपनीयतया, शीघ्रकार्य-वादेन च कार्यं करोति।
अतिरिक्त-आरक्षक-अधीक्षकः वैभवः शर्मा स्वसम्बोधने सीनियर-नॉट-अलोन योजनायाः, महिला-बीट-अधिकारी-योजनायाः, भारतीय-न्याय-संहिता-२०२३, भारतीय-नागरिक-सुरक्षा-संहिता-२०२३, भारतीय-साक्ष्य-अधिनियम-२०२३ इत्येषां प्रमुखप्रावधानानां, महिलासुरक्षासम्बद्धानां नूतनविधिव्यवस्थानां तथा कार्यस्थले महिलानां लैङ्गिक-उत्पीडन-निवारण-सम्बद्धविधानानां विस्तृतं विवरणम् अयच्छत्।
प्रशिक्षणाधीनः आर.पी.एस.अधिकारी सुखरामः विश्नोई कार्यस्थले महिलानां सुरक्षा-सम्मानयोः विषये विशाखा-निर्देशिकायाः, कार्यस्थले महिलानां लैङ्गिक-उत्पीडन-अधिनियम-२०१३, पॉक्सो-अधिनियमस्य, सेवक-भाटक-सत्यापनस्य तथा बाल-महिलासुरक्षासम्बद्धानां विविधविधि-प्रावधानानां विषये विस्तरेण अवगतिं प्रदत्तवान्।
धौलपुर-वृत्तस्य वृत्ताधिकारी कृष्णराजः जाङ्गिडः महिलानां बालिकाणां च विरुद्धं भवताम् अपराधानां निवारणम्, आरक्षकविभागस्य त्वरितप्रतिक्रिया-व्यवस्था, महिला-अपराधानां विवेचना, संवेदनशीला आरक्षक-व्यवस्था, साक्ष्यसंरक्षणम्, पीडित-सहायतातन्त्रम् तथा समाजस्य सहभागिता इत्येतेषां विषयाणां विषये प्रकाशम् अक्षिपत्। कार्यक्रमे महिला-कान्स्टेबल मुन्नी देवी इत्यनया महिलाशक्ति-आत्मरक्षा-प्रशिक्षण-योजनायाः अन्तर्गतं प्रभाविणाम् आत्म-रक्षातन्त्राणां व्यावहारिकं प्रदर्शनं कृतम्। कार्यक्रमस्य सञ्चालनम् अङ्कुर-कौशिकेन, आरक्षक-अधीक्षकस्य निज-सहायकेन, कृतम्। अस्मिन् कार्यक्रमे विविधविभागानाम् अधिकारिणः, महिला-सुरक्षासम्बद्धविशेषज्ञाः तथा जनपदस्य विभिन्नक्षेत्रेभ्यः आगताः बहुसंख्यकाः महिला-प्रतिनिधयः सहभागित्वम् अकुर्वन्।
Hindusthan Samachar / Divya Ranjan