Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, ११ जुलाईमासः (हि.स.)। मुख्यमन्त्रिणः पुष्करसिंहधामिनः निर्देशानुसारं सहसपुरे आयोजिते सेवा-सुशासन-समर्पण ‘जन-जनस्य सर्वकारः, जन-जनस्य द्वारे’ इति बहुउद्देशीय-जनसेवा-शिविरे आवेदनपत्रं प्रदत्तवत्यै एकस्यै महिलायै शनिवासरे तस्मिन्नेव दिने सिवन-यन्त्रम् उपलब्धं कृतम्।
आधिकारिक-सूचनानुसारं शिविरे स्थानीय-निवासिनी बबली-गुप्ता मुख्यमन्त्रिणे ज्ञापनपत्रं समर्प्य जूट-उपानह-कोष्ठकान् निर्माय स्वरोजगारस्य आरम्भार्थं सिवन-यन्त्रस्य उपलब्धिं प्रार्थितवती। मुख्यमन्त्री तत्क्षणमेव प्रकरणस्य संज्ञानं गृहीत्वा सम्बन्धित-अधिकारिभ्यः आवश्यक-कार्यवाह्याः निर्देशान् प्रदत्तवान्।
मुख्यमन्त्रिणः निर्देशानाम् अनुपालने मुख्यमन्त्रिणः अपर-सचिवस्य बंशीधर-तिवारी-महोदयस्य समन्वयेन सायंकालपर्यन्तं बबली-गुप्तायै सिलाई-यन्त्रम् उपलब्धं कृतम्। सिवन-यन्त्रं प्राप्य बबली-गुप्ता मुख्यमन्त्रिणः प्रति कृतज्ञतां व्यक्तवती तथा उक्तवती यत् सर्वकारस्य त्वरित-कार्यवाह्या तस्याः स्वरोजगारस्य मार्गः प्रशस्तः अभवत्। सा अवदत् यत् अधुना सा जूट-उपानह-कोष्ठकान् निर्माय स्वाम् आजीविकां सुदृढां कर्तुं शक्नुयात्।
Hindusthan Samachar / Divya Ranjan