मन्दिरे दर्शनार्थिनां न्यूनता नास्ति, भक्ताः श्रद्धया दर्शनं कुर्वन्ति : नृपेन्द्रमिश्रः
अयोध्यानगरम्, १२ जुलाईमासः (हि.स.)। राममन्दिर-निर्माण-समितेः त्रिदिवसीय-सभायाः तृतीये दिने रविवासरे अध्यक्षः नृपेन्द्रमिश्रः द्विदिवसीय-सभायाः प्रगतिविषये सूचनां प्रदत्तवान्। तेन उक्तं यत् सभा द्वयोः चरणयोः सम्पन्ना, रामकथा-सङ्ग्रहालयस्य च अनेके मह
नृपेंद्र मिश्र


अयोध्यानगरम्, १२ जुलाईमासः (हि.स.)। राममन्दिर-निर्माण-समितेः त्रिदिवसीय-सभायाः तृतीये दिने रविवासरे अध्यक्षः नृपेन्द्रमिश्रः द्विदिवसीय-सभायाः प्रगतिविषये सूचनां प्रदत्तवान्। तेन उक्तं यत् सभा द्वयोः चरणयोः सम्पन्ना, रामकथा-सङ्ग्रहालयस्य च अनेके महत्त्वपूर्णाः विषयाः अन्तिमरूपेण निश्चिताः। सङ्ग्रहालयस्य सर्वासां दीर्घिकाणां लेख्यसामग्री अन्तिमरूपेण स्वीकृता, तथा श्रद्धालुभ्यः/दर्शकेभ्यः प्रदेयानां सुविधानां विषयेऽपि विस्तरेण चर्चा कृता।

सः अवदत् यत् रामकथा-सङ्ग्रहालये भगवत: श्रीरामस्य वनगमनसम्बद्धाः देशस्य प्रमुखाः नद्यः प्रदर्शिताः भविष्यन्ति। अस्य आरम्भः सरयू-नद्याः प्रदर्शनेन भविष्यति, समापनं च गुप्तार-घट्टम् केन्द्रीकृत्य भविष्यति।

तेन उक्तं यत् रामकथा-सङ्ग्रहालयस्य निर्माणे प्रायः १०० कोटि-रूप्यकाणां व्ययः भविष्यतीति अनुमानम् अस्ति। राममन्दिर-निर्माणस्य समग्र-व्ययः १६००–१८०० कोटि-रूप्यकाणां मध्ये भविष्यतीति अपि अनुमानं व्यक्तम्।

दर्शनार्थिनां सङ्ख्या न्यूना जाता इति चर्चाः निराकुर्वन् नृपेन्द्रमिश्रः अवदत् यत् मन्दिरे दर्शनार्थिनां कापि न्यूनता नास्ति, भक्ताश्च पूर्णश्रद्धया भगवन्तं द्रष्टुं समागच्छन्ति।

सः अपि अवदत् यत् श्रद्धालुभिः सह निरन्तरं संवादे सति तस्मै काचिदपि सूचना न प्राप्ता। २२ जुलाईमासे राममन्दिर-न्यासस्य सभा प्रस्ताविता अस्ति। मुख्यकार्यनिर्वाहक-अधिकारिणः नियुक्तिः, समितीनाम् उपसमितीनां च भविष्यसम्बद्धाः विषयाः अन्तिमरूपेण न्यासेनैव निर्णेष्यन्ते।

नृपेन्द्रमिश्रः स्पष्टतया अवदत् यत् राममन्दिर-न्यासस्य पदेन-सदस्यानां मतदान-अधिकारः नास्ति। यदि मुख्यकार्यनिर्वाहक-अधिकारी नियुक्तः भविष्यति, तर्हि सः न्यासस्य पर्यवेक्षणे स्वकीयं कर्मचारीदलम् नियोक्तुं शक्नोति।

Hindusthan Samachar / Divya Ranjan