अमित शाहः अहमदाबादे 405 कोटि विकास कार्याणां करिष्यते उद्घाटनं शिलान्यासश्च
अहमदाबादम्, 12 जुलाईमासः(हि.स.)। नगरं हरितं प्रदूषणमुक्तं च कर्तुम् उद्दिश्य अहमदाबादमहानगरपालिकया मिशन फाइव मिलियन ट्री इति अभियानस्य अन्तर्गतं भव्यः सामूहिकवृक्षारोपणकार्यक्रमः आयोजितः। रविवासरे साइन्ससिटिस्थिते विज्ञानभवने आयोजिते महाकार्यक्रम
अमित शाह ने 101 ऑक्सीजन पार्कों का किया लोकार्पण,


अहमदाबादम्, 12 जुलाईमासः(हि.स.)।

नगरं हरितं प्रदूषणमुक्तं च कर्तुम् उद्दिश्य अहमदाबादमहानगरपालिकया मिशन फाइव मिलियन ट्री इति अभियानस्य अन्तर्गतं भव्यः सामूहिकवृक्षारोपणकार्यक्रमः आयोजितः। रविवासरे साइन्ससिटिस्थिते विज्ञानभवने आयोजिते महाकार्यक्रमे केन्द्रीयगृहमन्त्री अमितशाहः चतुःशतपञ्चकोटिरूप्यकमूल्यानां विविधविकासकार्याणां लोकार्पणं शिलान्यासं च अकरोत्।

मिशन फाइव मिलियन ट्री परियोजनायाः अन्तर्गतं नगरे हरितविकासं प्रवर्धयन्तौ हेरिटेजपार्कः तथा एकाधिकशतम् ऑक्सीजनपार्क अर्बनफॉरेस्ट इत्येतयोः अपि अमितशाहेन लोकार्पणं कृतम्। ग्रीनमोबिलिटी योजनायाः अन्तर्गतं बीआरटीएस जालके अशीतिः नूतनाः वातानुकूलिताः विद्युद्वाहनयानबसाः सेवायाम् आरब्धाः। तेन सह एएमटीएस परिवहनव्यूहे अपि पञ्चसप्ततिः नूतनाः वातानुकूलितबसाः समावेशिताः।

कार्यक्रमस्य अवसरे षष्टिको्ट्यष्टषष्टिलक्षरूप्यकव्ययेन निर्मितानां अष्टाशीत्यधिकशतसंख्याकानां आधुनिकसर्वकारीयावासानाम् अपि आभासीयलोकार्पणं कृतम्। ततः परं केन्द्रीयगृहमन्त्री भाडज बोपल वाडज इत्यादिषु विविधप्रदेशेषु सामूहिकवृक्षारोपणाभियाने सहभागं कृतवान्।

अस्मिन् अवसरे अमितशाहः अवदत् यत् अद्य अहमदाबादनगरस्य गांधीनगरलोकसभाक्षेत्रस्य च सर्वेभ्यः नागरिकेभ्यः हृदयपूर्वकं प्रणामं अभिनन्दनं च करोमि। गांधीनगरलोकसभाक्षेत्रे अद्य एकस्मिन्नेव दिने नागरिकैः मिलित्वा एककोटिपञ्चविंशल्लक्षाधिकपादपारोपणस्य भागीरथप्रयत्नः कृतः। अहमदाबादनगरस्य त्रिषु लोकसभाक्षेत्रेषु पृथक् पञ्चाशल्लक्षपादपारोपणस्य महाभियानम् अपि सञ्चालितम्।

तेन उक्तं यत् किञ्चित्कालपूर्वं यदा तेन उपवेशने एषः विचारः प्रस्तुतः तदा केनापि स्पष्टतया आम् अथवा न इति न उक्तम्। किन्तु अद्य जनतया एषः विचारः सफलतया साकारः कृतः। प्रधानमन्त्री नरेन्द्रमोदिना सम्पूर्णे देशे हरितावरणवृद्ध्यर्थम् एकः वृक्षः मातुः नाम्ना इति अभियानस्य आह्वानं कृतम् यतः जनाः स्वमातुः भूमेर्मातुः च स्मृत्यर्थम् एकैकं पादपं रोपयेयुः।

अमितशाहः अवदत् यत् भारतसर्वकारस्य केन्द्रीयार्धसैनिकबलैः सप्तवर्षेषु सप्तकोटिपादपारोपणस्य लक्ष्यं सफलतया पूर्णीकृतम्। तेन उक्तं यत् पर्यावरणसंरक्षणम् अद्य अत्यन्तम् आवश्यकम् अभवत्। वाहनानां वर्धमानप्रयोगेन कार्बनविसर्जनं प्रदूषणं च निरन्तरं वर्धते अतः नगरेषु हरितिम्नः संवर्धनं कालस्य परमावश्यकता अस्ति।

तेन उक्तं यत् गांधीनगरक्षेत्रे पूर्वं केवलं द्वादश उद्यानानि आसन् किन्तु अधुना एकषष्टिः नूतनाः ऑक्सीजनपार्काः लोकार्पिताः। सम्पूर्णे अहमदाबादनगरे अहमदाबादमहानगरपालिकया एकाधिकशतम् ऑक्सीजनपार्काः विकसिताः। अस्य आयोजनस्य कृते तेन अहमदाबादमहानगरपालिकां महापौरं हितेशबारोटं च अभिनन्दितवान्। तेन उक्तं यत् महानगरपालिकया नागरिकानां गृहपर्यन्तं पादपप्रेषणार्थं विशेषवाहनव्यवस्था अपि कृता अस्ति।

अमितशाहः अवदत् यत् मया वर्षे द्विसहस्रोनत्रिंशत्तमे निर्वाचनपर्यन्तं अस्मिन् क्षेत्रे विंशतिप्रतिशतम् हरितिम्नः वृद्ध्यर्थं व्यक्तिगतः सङ्कल्पः कृतः।

तेन उक्तं यत् पर्यावरणसंरक्षणेन सह गांधीनगरक्षेत्रं हरितऊर्जाक्षेत्रे अपि अग्रणी अस्ति। देशे अधिकतमसौरगृहच्छदव्यवस्थायुक्तेषु क्षेत्रेषु गांधीनगरलोकसभाक्षेत्रं प्रमुखस्थानम् अधितिष्ठति। प्रदूषणन्यूनीकरणार्थं नूतनाः विद्युद्वाहनबसाः सेवायां समावेशिताः येन कार्बनविसर्जनस्य न्यूनीकरणे सहायता भविष्यति।

अमितशाहः अवदत् यत् गांधीनगरलोकसभाक्षेत्रे मध्याह्नसमये एकवादनपर्यन्तं कुलम् एककोटिपञ्चविंशल्लक्षत्रिनवतिसहस्रपञ्चशतत्रयोदश पादपारोपणस्य लक्ष्यं पूर्णं भविष्यति। तेन उक्तं यत् गांधीनगरलोकसभाक्षेत्रे अधुना यावत् अष्टाविंशतिसहस्रचतुःशतनवतिद्विकोटिरूप्यकपरिमितानि विकासकार्याणि सम्पन्नानि सन्ति।

अन्ते तेन नागरिकान् प्रति द्वे विशेषे प्रार्थने कृते। तेन उक्तं यत् कस्यापि आवाससमूहस्य कश्चन देशः वृक्षविहीनः न भवेत् तथा च अधिकाधिकाः पादपाः रोपणीयाः येन आगामिसन्ततेः कृते पृथिवी निवासयोग्या भवेत्। तेन सह स्वगृहेषु सौरगृहच्छदव्यवस्थां स्थापयितुम् अपि जनाः आहूताः। सः अवदत् यत् आगच्छामः वयं सर्वे मिलित्वा स्वक्षेत्रं हरितं निर्मलं च कुर्मः।

---------------

Hindusthan Samachar / Dheeraj Maithani