अमरनाथ धाम्ने 11तमे गणे 9,153तः अधिकाः तीर्थयात्रिणः दृढसुरक्षायां
- एतावता2.30 लक्षात् अधिकश्रद्धालवःअकुर्वन् हिम शिवलिंगस्य दर्शनम् जम्मूः, 12 जुलाईमासः (हि.स.)। वार्षिकामरनाथयात्रायाः कृते रविवासरे प्रातःकाले सुदृढसुरक्षाव्यवस्थायाः मध्ये नवसहस्रैकशतत्रिपञ्चाशत् तीर्थयात्रिकाणां एकादशः दलः जम्मूनगरस्थितात्
अमरनाथ धाम्ने 11तमे गणे 9,153तः अधिकाः तीर्थयात्रिणः दृढसुरक्षायां


- एतावता2.30 लक्षात् अधिकश्रद्धालवःअकुर्वन् हिम शिवलिंगस्य दर्शनम्

जम्मूः, 12 जुलाईमासः (हि.स.)।

वार्षिकामरनाथयात्रायाः कृते रविवासरे प्रातःकाले सुदृढसुरक्षाव्यवस्थायाः मध्ये नवसहस्रैकशतत्रिपञ्चाशत् तीर्थयात्रिकाणां एकादशः दलः जम्मूनगरस्थितात् भगवतीनगरयात्रिनिवासात् दक्षिणकाश्मीरहिमालयप्रदेशस्थितायै पवित्रगुहामन्दिराय प्रस्थितः। सुरक्षाकर्मिभिः नागरप्रशासनेन च जम्मू श्रीनगर राष्ट्रियमार्गे तीर्थयात्रिकाणां सुचारुगमनागमनं सुनिश्चितीकृतम्। तेषां सुरक्षायै चिकित्सासाहाय्यार्थं यातायातनियन्त्रणाय आवश्यकसामग्रीसमर्थनाय च व्यापकव्यवस्थाः कृताः।

अधिकारिभिः उक्तं यत् अस्मिन् नूतने दले द्विसहस्रत्रिशतपञ्चचत्वारिंशत् महिलाः अष्टादश बालकाः च सन्ति। तीर्थयात्रिकाणां एकादशः दलः त्रिशतोनषष्टिवाहनेषु समारुह्य बहुस्तरीयसुरक्षाव्यवस्थायाः अन्तर्गतं द्वयोः पृथक्काफिलयोः आधारशिविरात् निर्गतः। प्रथमे काफिले त्रिसहस्रचतुःशतएकोनत्रिंशत् तीर्थयात्रिकाः आसन् ये प्रातः द्विवादनचतुश्चत्वारिंशन्मिनिटसमये गान्दरबलजनपदस्थितबालटालाधारशिविराय प्रस्थिताः। द्वितीये काफिले पञ्चसहस्रसप्तशतचतुर्विंशत् तीर्थयात्रिकाः आसन् ये प्रातः त्रिवादनपञ्चत्रिंशन्मिनिटसमये अनन्तनागजनपदस्थितनुनवान पहलगाम आधारशिविराय प्रस्थिताः।

अधिकारिणां मते अस्मिन् वर्षे तीर्थयात्रायां जनानां महती सहभागिता दृश्यते। जुलाईमासस्य तृतीयदिने यात्रायाः प्रारम्भात् आरभ्य द्विलक्षत्रिंशत्सहस्राधिकाः श्रद्धालवः पवित्रामरनाथगुहामन्दिरे प्राकृतिकरूपेण निर्मितस्य हिमशिवलिङ्गस्य दर्शनं पूजार्चनां च कृतवन्तः। सप्तपञ्चाशद्दिनात्मकायाः एषा वार्षिकतीर्थयात्रा अगस्तमासस्य अष्टाविंशतितमे दिने रक्षाबन्धनोत्सवेन सह सम्पन्ना भविष्यति। अधिकारिणः आशां कुर्वन्ति यत् आगामिषु सप्ताहेष्वपि तीर्थयात्रिकाणामागमनं निरन्तरं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani