Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 12 जुलाईमासः (हि.स.)।असमपुलिसदलेन मादकद्रव्यविरोधिनः अभियानस्य अन्तर्गतं महती सफलता प्राप्ता। श्रीभूमिजिले प्रायः एककोटिरूप्यकमूल्यानि दशसहस्राणि याबागुटिकाः अधिगृहीताः। अस्याः कार्यवाह्याः समये पुलिसदलेन द्वौ अभियुक्तौ अपि गृहीतौ।
मुख्यमन्त्री डॉ. हिमन्तबिस्वशर्मा एतस्याः सफलतायाः कृते श्रीभूमिपुलिसस्य प्रशंसाम् अकरोत्। तेन सामाजिकमाध्यमे लिखितम्, ब्रेकिंग बैड? असमे न कदापि।
मुख्यमन्त्री अवदत् यत् ‘असम अगेंस्ट ड्रग्स’ अभियानस्य अन्तर्गतं राज्ये मादकद्रव्यतस्करीविरुद्धं निरन्तरं कठोरकार्यवाही क्रियमाणा अस्ति। सः पुलिसं अभिनन्द्य अवदत् यत् असमपुलिसः मादकद्रव्यतस्करेभ्यः किमपि प्रकारस्य अवकाशं न ददाति।
राज्यसर्वकारस्य कथनानुसारं युवानः मादकद्रव्यव्यसनात् रक्षितुं तथा मादकद्रव्यतस्करीं निरोद्धुं च एषः अभियानः अग्रेऽपि एवं निरन्तरं प्रवर्तिष्यते।
------------
Hindusthan Samachar / Dheeraj Maithani